Book Title: Chandramalstotram Author(s): Jaysagar Publisher: ZZZ Unknown View full book textPage 6
________________ [ ५ ] अस्तङ्गमी जलदराहुनिरोध्यधामा, नित्यं नभोभ्रमणकृत् परुषांशुराशिः। भानुर्यदा भवति नाथ ! तवोपमानं, तुल्यस्तदाऽस्तु कृपणोऽपि नृपाधिपेन ॥१५॥ विश्वत्रयाय वितरन्तमनन्तभूति, __ दारिद्यदारणमुदाधियां प्रधानम् । मन्ये भवन्तमवलोक्य भुवि स्फुरन्त__ मन्तर्दधुर्भुवमधीश ! सुरद्रुमौघाः ॥ १६ ॥ दृष्टो भवान् भवभृतां भवमाभिनत्ति, सम्यक् स्तुतः सकलमङ्गलमूलहेतुः । भक्त्यार्चितः सपदि सिद्धिसमागमाय, किं किं न ते त्रिभुवनाभ्युदयाय देव ! ॥१७॥ आस्तां तवार्चनमचिन्त्यविभूतिभूमि र्मोहाऽसनं सकृदपि श्रवणं गिरस्ते । चन्द्रस्तु तिष्ठतु सुधानिधिरिद्धधामा, यञ्चन्द्रिकाऽपि घनधर्महरा धरायाम् ॥१८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22