Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 14
________________ [ १३ ] नृत्यत्कबन्धकनभश्चरमुण्डमाले, ___ वर्षच्छरव्रजवहद्रुधिरौघरौद्रे । व्यक्तैकवीररससङ्गमरङ्गभूमौ, युद्धे जयन्ति भवतः स्मरणेन धीराः ॥४७॥ वातोध्धते जलनिधौ स्फुटनक्रपङ्क्ता वावर्त्तगर्तपतनक्षतयानपात्राः । दिङ्मूढतामुपगतास्तव कीर्तनेन, तीर्णापदो हि कलयन्त्यनुकूलकूलम् ॥४८॥ कुष्टक्षतक्षयभगन्दरदुष्टदेहाः, प्रोद्यन्महोदरधरा मृतिमेषिणोऽपि । नामाक्षरस्मृतिसुधां तव ये पिबन्ति, रूपश्रिया तनुभृतस्त्रिजगज्जयन्ति ॥ ४९ ॥ क्लिष्टाग्रवन्निगडरुध्धगतिप्रचारा, व्यासञ्जितप्रखरशृङ्खलघृष्टगात्राः। उत्सृज्य बन्धनभवं भयमङ्गभाजः, स्वस्थीभवन्ति हि भवन्तमनुस्मरन्तः ॥५०॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22