Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 15
________________ [ १४ ] वृष्टो भवान् समरसेन निजात्मभूम्या मार्दीबभूव हृदयं किल शूलपाणेः । प्लोषं गता कथमहो ! चिररूढमूला, हिंसाबृहद्बततिरुच्छ्वसितो विवेकः ॥ ५१ ॥ पापात्मनोऽपि फणिनो भवदद्धिपद्म___ संस्पर्शनेन जिनपुङ्गव ! कौशिकस्य । मन्ये सुधात्वमगमद्विषमेव यत्स, दिव्यश्रियामधिकृतोऽमृतभुग्बभूव ॥ ५२ ॥ यं प्राप्य वीर ! विकटं कटपूतनायाः, शीतोपसर्गमघवर्गविडम्बितायाः। तेनैव तां विहितवानसि नष्टतापां, धिष्णासु कौशलमहो! भुवनोत्तराणाम्॥५३॥ वर्षद्रजोत्रजगजोरगसिंहचक्रं, यत्संगमेन विकृतं विबुधाधमेन । रोमापि ते मुनिपते ! चलितं न तेन, वज्रोदरे ब्रजति निष्फलतां शरौघः ॥ ५४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22