Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ [ १६ ] त्वत्सन्निधेः प्रविगलन्मदकन्दबन्धि___ मिथ्योपलम्भनमलस्त्रिशलाकुमार!। शुद्धोऽवधेरधिगमाच्छिवराजयोगी, ___ सङ्गः सतां सकलसंपदुदारभूमिः ॥ ५९ ॥ शिष्यब्रुवो भवत एव गतः प्रवृद्धिं, __ विद्याश्रयोऽप्यजनि दुर्मदमन्दमेधः । मङ्खात्मजो हतविधिर्भवतो विरोधी, ___ व्याले विषं भवति वा पयसां प्रपानम्॥६०॥ विद्यच्छतप्रतिनिधि निधनाय लेश्यां, यां तैजसीं त्वयि मुमोच मुमूर्षुरेषः । यातैनमेव हि नराधमसङ्गदुष्टा, स्पृश्या कथं परमशुधिमुपागतानाम् ॥६१॥ मुक्तात्मनोऽपि भवतः परिदेवनेन, । यो गौतमः सपदि केवलमाससाद । इष्टग्रहे गुरुजनात् करुणं शिशूनां, यद्रोदनं मृदुधियां प्रथमो ह्युपायः ॥ ६२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22