Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 20
________________ [ १९ ] दीनाकृति हृतहृदं विवृतात्मवक्त्र दन्तार्पिताङ्गुलिमलं गलदुष्णबाष्पम् । आक्रन्दवृन्दमुखरं शरणागतं मां, पाहि प्रभो ! भुवनवत्सल! हे कृपालो! ॥७१॥ हित्वा भवन्तमपि लोकहितावतारं, कस्याग्रतः कृपणरोदनमातनोमि । रौमि स्वयं यदि परं करुणासमुद्र !, बाष्पप्रमार्जनविधौ मम नात्र कोऽपि ॥७२॥ अन्यन्न वच्मि वचसा न च चिन्तयामि, चित्तेन नाथ ! वपुषा न करोमि कृत्यम् । मुक्त्वा तव स्तवनचिन्तनवन्दनानि, यजन्मनः फलमिदं विशदं वदन्ति ॥७३॥ पापं पिधेहि मयि धर्मधियं निधेहि, __ बोधि विधेहि हृदि धेहि शमं चिराय । एतावदेव भगवन् ! भवतस्तु याचे, यद्याचनामनुमनन्ति महानुभावाः ॥ ७४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 18 19 20 21 22