Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 19
________________ [ १८ ] वामन्तरा मुनिपते ! भववारिराशौ, __ये ये मयि व्यतिकरा विपदामभूवन् । वाचाऽपि तान् कथयितुं कथमीश्वरोऽहं, जानासि वा स्वयमशेषमधीश्वर! त्वम् ॥६७॥ मोहावृतं हृदयदारणदारुणाना माधारतां गतमनर्थपरम्पराणाम् । दुःखोदधेर्विधुरमुद्धर मामधीश !, यस्माद्विभो ! त्रिभुवनावनतत्परोऽसि ॥६॥ हा! हा! हतोऽस्मि हतभाग्यभरोऽस्मि नाथ! ___ यत्त्वद्रोिऽपि विपराङ्मुखतां गतोऽस्मि ! किं वाऽन्यथा रचितरौद्रकदर्थनाना___ मोऽहमूर्जितकषायभुजङ्गमानाम्॥ ६९ ॥ जन्मावलीविषमवेषविवर्तनाभिः, प्रेमप्रभृत्यभिनयैर्भवरङ्गभूमौ । मामानटन्तमिह मोहनटेन्द्रशास्त्या, नोपेक्षितुं विवशमर्हसि विश्वबन्धो ! ॥७॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22