Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 18
________________ [ १७ ] पुण्यात्मनां जिन ! भवन्मुखपूर्णचन्द्र, हित्वाऽन्यतो न रमते कचनापि दृष्टिः। गङ्गातरङ्गतरणोध्धुरबन्धुराणां, किं वा रतिः करटिनां लघुनिझरेषु॥ ६३ ॥ धन्यास्त एव शुचिपुण्यभरास्त एव, श्लाघ्या जिनेन्द्र ! शशिगौरयशश्चयास्ते। तैरेव जृम्भितफलं निजजन्म चक्रे, भक्तिप्रसादितहृदःप्रणमन्ति ये त्वाम् ॥६४॥ लब्ध्वाऽपि दुर्लभमिदं नरजन्म जानन् , ___ दुष्प्राप्यतां तव गिराममृतायितानाम् । भीतोऽपि जातिमृतिपातपरम्परायाः को नाम नाभिरमते भवदछिमूले ॥६५॥ पूर्वं मया भववनभ्रमणाकुलेन, नाकर्णितो न च नतो न विलोकितस्त्वम् । प्राप्तोऽधुना धुतरिपो ! कृपया तवैव, शाखीव दुर्लभतरो मरुमण्डलोया॑म् ॥६६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22