Page #1
--------------------------------------------------------------------------
________________
jay Jain Granthma
००००००००० ००००००००(10)
0000००००००००००० 210908
००००००००० )
શ્રી યશોવિજયજી
Illlebic 18
દાદાસાહેબ, ભાવનગર, ફોન : ૦૨૭૮-૨૪૨૫૩૨૨
300४८४
गरमुनिविरचित
मलस्तोत्रम्।
००००००००००००००००००००००००
०००००००००००००००००
Yashovllay Jain Grand
४.304
संशोधक अने प्रकाशक संघवी अमृतलाल मोहनलाल व्याकरणतीर्थ, वैयाकरणभूषण
भा व नगर.
MOONA00036
.0000००००००००००००००००००००००००००००००००
AA10000000000०००००००००००००००००० ००००००००००
००००००००००००००00000000000000000०००
190000-100०००००००००००००००
विक्रम सं. १९९२
ज्ञानपंचमी.
वीर सं. २४६२
मुद्रक: शाह गुलाबचंद लल्लुभाइ श्री महोदय प्रिन्टींग प्रेस, दाणापीठ-भावनगर.
(ES.10०००००००
000000०.
Cl00000.00 44000000uo..
co
90
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
आगमोद्धारक-तपागच्छाचार्य-श्रीमदानन्दसागरसूरिशिष्य
जयसागरमुनिविरचितम् । ॥अथ श्री चन्द्रामलस्तोत्रम्॥
[ महावीरस्तोत्रम् ]
( वसन्ततिलकावृत्तम् ) ‘चन्द्रामलं सकलभद्रपदं नतेन्द्र__ चूडामणिद्युतिविचित्रनखांशुदृश्यम् । वन्देऽहतस्त्रिभुवनाभिमताभिकाम
कल्पद्रुमायितमुपद्रुतविघ्नमतिम् ॥ १॥ जातोऽपि यः सुरगिरि चलयाञ्चकार,
क्रीडाविधौ विजितवैकृतदेहदेवः । उद्यौवनोऽपि निभृतं व्रतमावभार,
वाये वधूमधिजगाम च सिद्धिसंज्ञाम् ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
[ २ ] भूतार्थवद्भिरभिनन्दनवर्णपूर्ण___ पद्यैः स्फुरत्सुभगबन्धगभीरभावैः । स्तोत्रैः स्तुतः शतमखप्रमुखैः सुरैर्यः,
स्तोष्ये जिनं तमहमन्तिमतीर्थनाथम् ॥३॥ वाचस्पतिः प्रथितवाग्विभवोऽपि नाथ !,
स्तोतुं क्षमः कथमनन्तगुणं भवन्तम् । किं वा जनो गणिततन्त्रविशारदोऽपि, __ तारागणं गणयति स्वयमन्तरिक्षे ॥४॥ कुण्ठा मतिर्वचनशक्तिरपार्थगुर्वी,
नोपासना बुधजनस्य सुरद्रुतुल्या । यत्नस्तथापि तव संस्तवनाय नाथ !, __ तद्दरदुर्ललितसाहसराजधानी ॥५॥ युक्तं हि तत्सकलविश्वविदाऽप्यशक्या, __ वक्तुं गुणास्तव जिनेश्वर ! जीवलोके । चित्रं पुनः श्रुतकलाविकलोऽपि सोऽहं,
स्तोत्रच्छलादतुलचापलमभ्युपैमि ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
[३] मन्दोऽसमीक्षितकृतिव्यसनाभिभूतो, ___ हास्यो ध्रुवं मतिमतां ननु सिद्धमेतत् । हास्यास्पदं यदि विभो ! स्वयमात्मनोऽह
मन्यैः कृतं कृपणहास्यविलासदक्षैः ॥ ७॥ यस्मिन्नुदारमतयोऽपि बुधाः स्खलन्ति,
स्तोत्रे कथं स्फुरति तत्र जनोऽल्पबुद्धिः। स्वामिंस्तथापि मुखरीभवितास्मि यद्वा,
श्रद्धाग्रहः श्रुतवतामपि दुर्निवारः ॥८॥ 'मुग्धं हि मां गुणनिधे ! गुणकीर्तनाय,
भक्तिस्तव त्वरयते प्रतिबन्धवन्ध्यम् । स्वच्छन्दपूर्तिरथवा मम किं न लोके, __ क्रीडागृहं मृदुधियो रचयन्ति बालाः ॥ ९ ॥ आस्तां प्रभावभवनं स्तवनं तवेश !,
नामाभिधानमपि पापमपाकरोति । दूरे सुधास्नपनमूर्जितवीर्यमस्या, बिन्दुस्रवोऽपि विषवेगविनाशहेतुः ॥ १० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
[ ४ ] माहात्म्यमीश ! मुनिभिस्तव गीतमुच्चैः,
शुभ्रं यशः शुभनिधे ! विबुधाधिनाथैः । लोकोत्तरं चरितमग्रसरैः कवीनां,
गीयेत केन गरिमालय! ते स्वरूपम् ॥ ११॥ सूर्याधिकं भुवनबोधकरप्रभावं,
चन्द्राधिकं सकलतापहरस्वरूपम् । इन्द्राधिकं प्रवररूपमनन्तनेत्रं, ___ विश्वाधिकातिशयमीश! भजे भवन्तम् ॥१२॥ गम्भीरतामधिगतोऽपि भृतोऽपि रत्नैः,
क्षारं गुणं यदि वमेदापि निस्तरङ्गः । किं वा तथापि जगदीश ! जडाशयोऽसौ,
रत्नाकरस्तव भजेदुपमानभावम् ॥ १३ ॥ दोषाकरः कमलखण्डरतिप्रणाशी,
शश्वत्कलङ्कमलिनात्मविभाविभूतिः । क्षीणां कलां किल धरन् कथमभ्रलम्बी, तारापतिस्तव तुलामलमभ्युपेतुम् ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
[ ५ ] अस्तङ्गमी जलदराहुनिरोध्यधामा,
नित्यं नभोभ्रमणकृत् परुषांशुराशिः। भानुर्यदा भवति नाथ ! तवोपमानं,
तुल्यस्तदाऽस्तु कृपणोऽपि नृपाधिपेन ॥१५॥ विश्वत्रयाय वितरन्तमनन्तभूति, __ दारिद्यदारणमुदाधियां प्रधानम् । मन्ये भवन्तमवलोक्य भुवि स्फुरन्त__ मन्तर्दधुर्भुवमधीश ! सुरद्रुमौघाः ॥ १६ ॥ दृष्टो भवान् भवभृतां भवमाभिनत्ति,
सम्यक् स्तुतः सकलमङ्गलमूलहेतुः । भक्त्यार्चितः सपदि सिद्धिसमागमाय,
किं किं न ते त्रिभुवनाभ्युदयाय देव ! ॥१७॥ आस्तां तवार्चनमचिन्त्यविभूतिभूमि
र्मोहाऽसनं सकृदपि श्रवणं गिरस्ते । चन्द्रस्तु तिष्ठतु सुधानिधिरिद्धधामा,
यञ्चन्द्रिकाऽपि घनधर्महरा धरायाम् ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
[ ६ ]
तिष्ठन्त्वनन्तमहिमानि महेश ! लोके, ___ त्वन्निवृतिप्रभृतिपुण्यपदान्यहानि । जन्मापि ते जिनपते ! जगदुत्सवाय,
सर्वं सतां भवति भद्रकरं हि वृत्तम् ॥१९॥ भास्वान् दिवा तपति पद्मवनं प्रबोध्य,
रात्रिं विनोदयति कौमुदमोदमिन्दुः । नक्तंदिवा तपसि बोधयसे तमोघ्न
नेकस्त्वमेव भगवन्नघहजगन्ति ॥२०॥ त्वामाश्रितः सुरनराहतसंनिधानं, ___ रक्तच्छदावलिरसौ विलसन्नशोकः । छत्रीभवन्मणिफणस्य फणीश्वरस्य,
शोभां विडम्बयति रत्ननिधिस्थितस्य ॥२१॥ व्याख्यासदस्तलमणीनभिभूय मूनि,
धत्ते पदं कथमसौ सुरपुष्पवर्षः । यद्वा पतन् जिन! तवाधियुगे किलोच्चैः__ स्थानं शुचिः कलयति प्रतिवादशून्यम् ॥२२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
[ ७ ] स्याद्वादबोधनिपुणां निखिलाङ्गिवर्ग___ भाषात्मसात्परिणतां त्रिजगत्पुनानाम् । धन्यास्त्वनन्तगमभङ्गतरङ्गितां ते,
संसारमूलहरणीं गिरमापिबन्ति ॥ २३ ॥ स्थाने भवन्तमवनम्य यदूर्ध्वयानं,
व्यावर्त्तते कथमधः सुरचामरौघः । यद्वाऽभिगम्य भुवनेश्वरपादपद्म
मन्यत्र को ब्रजति नाथ ! वियोगभीरुः ॥२४॥ सिंहासने मणिविभोन्मिषिते निषण्णं,
त्वां वज्रिणो जिन ! जगत्प्रतिबोधयन्तम् । उन्नन्दयन्ति निनदैरुदयाद्रिमूर्ध्नि,
कोका दिवाकरमिवाऽऽस्मितपद्मखण्डम्॥२५॥ विष्वग्घतेषु भवता जगतां तमस्सु,
ज्योतिष्मतामधिपतिर्विधुताभिमानः । प्राप्तस्तवानुचरभावमिवाविभाति, ___ भामण्डलं ललितरश्मिभराभिरामम् ॥२६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
[ ८ ] धिग्धिग्धृतोऽसि निकृतोऽसि मृतोऽसि मन्द!
दृप्तोऽसि धृष्ट ! सति विश्वपतौ यदस्मिन् । इत्थं प्रतिक्षिपति दुन्दुभिरीश ! मोहं,
जाने नदन्नभसि नन्दितजीवलोकः ॥२७॥ तापत्रयीं त्रिभुवनेऽपि मुने ! निहन्सी
त्येतद्गुणप्रकटनाय गुणप्रियाभिः । मन्ये मृगाङ्कधवला ध्रियते तवोवं, __ छत्रत्रयी त्रिजगतामधिदेवताभिः ॥ २८ ॥ गोप्ता भवान् यदि विभो ! भुवनत्रयाणां,
गुप्तः कथं रजतहेममणित्रिसाल्या। गुप्तित्रयेण यदि वा ध्रुवमावृतो यो,
गोपायितुं जगदलं भगवन् ! स एव ॥२९॥ चञ्चन्नखद्युतिजुषोः सुरपद्मपङ्क्ति
व्याजाद्जन्ति तव नाथ ! पदोरधस्तात् । पुण्ये विहारसमये न्यसनोपचार
सञ्चारचारुविधयो निधयो नवापि ॥ ३० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
[ ९ ] मार्तण्डमण्डलविडम्बनडम्बरेण,
तेजोबजेन विलसत् कृशितान्धकारम् । सर्वस्वभूतमिव तीर्थकृदिन्दिराया,
युष्मत्पुरः स्फुरति धर्मद ! धर्मचक्रम् ॥३१॥ भित्त्वा मरुत्पथमधिष्ठितमग्रशोभं,
दूरोच्छितं चलपताकमनर्घ्यदण्डम् । इन्द्रध्वजं मुनिप ! मूर्त्तमुदीरयन्ति, ___ मार्ग शिवस्य सुधियस्तरुराजिरम्यम् ॥३२॥ एवंविधामधिकृतामधिगन्तुमीशो, __ भूतिं त्वमेव भुवनत्रितयेऽपि नान्यः । सर्वाः पतन्ति सरितः शुचिरत्नराशौ,
रत्नाकरे न च कदाचन गोष्पदेऽपि ॥ ३३ ॥ निर्ग्रन्थतामुपगतोऽपि परां परात्मन् !,
त्वं प्रातिहार्यकमलां कथमाबिभर्षि । अस्याः स्वरूपमिदमेव यतः परत्र, नावीनतीत्य रमते यतिपुङ्गवानाम् ॥३४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
[१०] सांनिध्यतस्तव परस्परमङ्गभाजो,
वैरानुबन्धमवधूय सृजन्ति मैत्रीम् । प्रेमोध्धुरं मधुरबन्धुमधिक्षिपन्ति,
मोहं महेश ! किमहो ! विषमं द्विषन्तः॥३५॥ क्रोधं विनाऽपि हतवानहितान्नितान्तं,
मुक्तिप्रियामभिभजन्नपि वीतरागः । त्वं रक्षसि त्रिभुवनं ननु निर्ममोऽपि,
विस्तारिविस्मयपदं जिन ! ते चरित्रम् ॥३६॥ आविर्भवन्नपि विभो ! भविहृत्सु येन,
रागोदकं तदपि शोषयसे कथं त्वम् । यद्वा क्षिणोति निजसंभवहेतुभूत__ मम्भोनिधेर्जलचयं वडवानलोऽपि ॥ ३७ ॥ दीपाङ्कुरादधिगुणः शुचिरत्नखण्डो, ___ रत्नाद्विधुर्विमलरश्मिवितानशोभी। सोमाद्रविस्तिमिरराशिविनाशितेजा
स्तेजोनिधे! त्वमसि सूर्यसहस्रजेता ॥३८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
[ ११ ] आलिङ्गनं विदधते ध्रुवमन्तरङ्ग
रागप्रबन्धमरुणाः प्रतिपादयन्तः। मन्ये मिथः परिपतत्प्रतिबिम्बयोगा
नमेन्द्रमौलिमणयोऽधिनखाः पुनस्ते॥३९॥ दृश्याविमौ तव मुनीन्द्र ! मरुत्पतेश्च,
सम्यक् समाहृतपरस्परसारवस्तू । अधिगलन्मुकुटमाल्यरजोविराजी, __ चूडामणिश्च शुचिचुम्बितपादरेणुः ॥ ४० ॥ वागंशुभिर्जिन ! तमोभरमन्तरङ्ग,
भित्त्वा दधासि भविनां हृदये पदानि । सद्यस्तमोदलमलं सवितेव लोके,
पद्माकरोदरनिषक्तसहस्रपादः ॥४१॥ चित्रं न नाथ ! शिथिलादरिणो भवन्ति, ___ त्वदर्शनेऽपि दुरितौघहरे परे यत् । किं वा स्फुरत्करभरो रजनीचराणां, ___ दृग्गोचरो दिनकरः किल कौशिकानाम् ॥४२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
[ १२, गण्डस्थलोद्गलदनर्गलदानगन्ध
सम्पत्समाहृतमधुब्रतवृन्दमाल्ये। नागाधिपे ध्रुवमुदञ्चितचण्डशुण्डे,
दिव्याङ्कुशीभवति ते स्मृतनाममन्त्रः ॥४३॥ उत्क्षिप्तकेसरघटोत्कटभीमवक्त्रं, ___ क्रोधारुणेक्षणयुगक्षरदुष्णरश्मिम् । घोरोद्धतध्वनितविद्रुतवन्यसत्त्वं, __ ध्याता हि ते लघुमृगीकुरुते मृगेन्द्रम् ॥४४॥ स्फूर्जत्स्फुलिङ्गगणपूर्णनभोग्रभागं, __ भस्मीभवद्वनवनस्पतिवर्धमानम् । चञ्चत्तडित्तरलतारशिघौघमुग्रं,
दावानलं शमयति स्मरणाम्बुदस्ते ॥ ४५ ॥ भीष्माङ्गमञ्जनरुचिं चलचण्डजिआँ,
ज्वालावलीपरिलसद्गरमुनिरन्तम् । अभ्यापतन्तमहिमाशु वशीकरोति, त्वन्नामगारुडमधीश्वर ! पाठसिद्धम् ॥४६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
[ १३ ] नृत्यत्कबन्धकनभश्चरमुण्डमाले, ___ वर्षच्छरव्रजवहद्रुधिरौघरौद्रे । व्यक्तैकवीररससङ्गमरङ्गभूमौ,
युद्धे जयन्ति भवतः स्मरणेन धीराः ॥४७॥ वातोध्धते जलनिधौ स्फुटनक्रपङ्क्ता
वावर्त्तगर्तपतनक्षतयानपात्राः । दिङ्मूढतामुपगतास्तव कीर्तनेन,
तीर्णापदो हि कलयन्त्यनुकूलकूलम् ॥४८॥ कुष्टक्षतक्षयभगन्दरदुष्टदेहाः,
प्रोद्यन्महोदरधरा मृतिमेषिणोऽपि । नामाक्षरस्मृतिसुधां तव ये पिबन्ति,
रूपश्रिया तनुभृतस्त्रिजगज्जयन्ति ॥ ४९ ॥ क्लिष्टाग्रवन्निगडरुध्धगतिप्रचारा,
व्यासञ्जितप्रखरशृङ्खलघृष्टगात्राः। उत्सृज्य बन्धनभवं भयमङ्गभाजः,
स्वस्थीभवन्ति हि भवन्तमनुस्मरन्तः ॥५०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
[ १४ ] वृष्टो भवान् समरसेन निजात्मभूम्या
मार्दीबभूव हृदयं किल शूलपाणेः । प्लोषं गता कथमहो ! चिररूढमूला,
हिंसाबृहद्बततिरुच्छ्वसितो विवेकः ॥ ५१ ॥ पापात्मनोऽपि फणिनो भवदद्धिपद्म___ संस्पर्शनेन जिनपुङ्गव ! कौशिकस्य । मन्ये सुधात्वमगमद्विषमेव यत्स,
दिव्यश्रियामधिकृतोऽमृतभुग्बभूव ॥ ५२ ॥ यं प्राप्य वीर ! विकटं कटपूतनायाः,
शीतोपसर्गमघवर्गविडम्बितायाः। तेनैव तां विहितवानसि नष्टतापां,
धिष्णासु कौशलमहो! भुवनोत्तराणाम्॥५३॥ वर्षद्रजोत्रजगजोरगसिंहचक्रं,
यत्संगमेन विकृतं विबुधाधमेन । रोमापि ते मुनिपते ! चलितं न तेन, वज्रोदरे ब्रजति निष्फलतां शरौघः ॥ ५४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
गाम्भीर्यसागर ! सुराचलधीरमूर्ते !,
ध्यानक्षतिं तव विधातुमसौ प्रवृत्तः । खात्मानमेव कृतवान् गलितप्रतिज्ञः,
स्वर्गासनश्रुतमपाकृतभूतिसारम् ॥ ५५ ॥ उत्रासयन् सुरवधूव्रजमात्मरक्षा
नाक्रोशयन् भयकृदाकृतिदुर्निरीक्ष्यः । संप्राप्य पादयुगलं तव योगिनाथ !,
दैत्येश्वरो हरिमधोवदनं चकार ॥ ५६ ॥ व्यावर्त्तनात्तव विभो ! वरमेव मन्ये, _____ श्लाघास्पदं रुदितमुन्मुखचन्दनायाः । बाष्पाविलां वसुमती प्रथमं चकार,
खौघवृष्टिशुचिसंगवतीं द्वितीयम् ॥ ५७ ॥ तुल्यश्रमौ समबलावपि गोपवैद्यौ,
व्यक्तादरौ त्वयि विभो ! व्यवसायधीरौ । एको जगाम नरकं सुरलोकमन्यो, __ व्याङोर्मियोऽन्तरमहो गुरु राधिधातोः॥५८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
[ १६ ] त्वत्सन्निधेः प्रविगलन्मदकन्दबन्धि___ मिथ्योपलम्भनमलस्त्रिशलाकुमार!। शुद्धोऽवधेरधिगमाच्छिवराजयोगी, ___ सङ्गः सतां सकलसंपदुदारभूमिः ॥ ५९ ॥ शिष्यब्रुवो भवत एव गतः प्रवृद्धिं, __ विद्याश्रयोऽप्यजनि दुर्मदमन्दमेधः । मङ्खात्मजो हतविधिर्भवतो विरोधी, ___ व्याले विषं भवति वा पयसां प्रपानम्॥६०॥ विद्यच्छतप्रतिनिधि निधनाय लेश्यां,
यां तैजसीं त्वयि मुमोच मुमूर्षुरेषः । यातैनमेव हि नराधमसङ्गदुष्टा,
स्पृश्या कथं परमशुधिमुपागतानाम् ॥६१॥ मुक्तात्मनोऽपि भवतः परिदेवनेन, । यो गौतमः सपदि केवलमाससाद । इष्टग्रहे गुरुजनात् करुणं शिशूनां,
यद्रोदनं मृदुधियां प्रथमो ह्युपायः ॥ ६२ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
[ १७ ] पुण्यात्मनां जिन ! भवन्मुखपूर्णचन्द्र,
हित्वाऽन्यतो न रमते कचनापि दृष्टिः। गङ्गातरङ्गतरणोध्धुरबन्धुराणां,
किं वा रतिः करटिनां लघुनिझरेषु॥ ६३ ॥ धन्यास्त एव शुचिपुण्यभरास्त एव,
श्लाघ्या जिनेन्द्र ! शशिगौरयशश्चयास्ते। तैरेव जृम्भितफलं निजजन्म चक्रे,
भक्तिप्रसादितहृदःप्रणमन्ति ये त्वाम् ॥६४॥ लब्ध्वाऽपि दुर्लभमिदं नरजन्म जानन् , ___ दुष्प्राप्यतां तव गिराममृतायितानाम् । भीतोऽपि जातिमृतिपातपरम्परायाः
को नाम नाभिरमते भवदछिमूले ॥६५॥ पूर्वं मया भववनभ्रमणाकुलेन,
नाकर्णितो न च नतो न विलोकितस्त्वम् । प्राप्तोऽधुना धुतरिपो ! कृपया तवैव,
शाखीव दुर्लभतरो मरुमण्डलोया॑म् ॥६६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
[ १८ ] वामन्तरा मुनिपते ! भववारिराशौ, __ये ये मयि व्यतिकरा विपदामभूवन् । वाचाऽपि तान् कथयितुं कथमीश्वरोऽहं,
जानासि वा स्वयमशेषमधीश्वर! त्वम् ॥६७॥ मोहावृतं हृदयदारणदारुणाना
माधारतां गतमनर्थपरम्पराणाम् । दुःखोदधेर्विधुरमुद्धर मामधीश !,
यस्माद्विभो ! त्रिभुवनावनतत्परोऽसि ॥६॥ हा! हा! हतोऽस्मि हतभाग्यभरोऽस्मि नाथ! ___ यत्त्वद्रोिऽपि विपराङ्मुखतां गतोऽस्मि ! किं वाऽन्यथा रचितरौद्रकदर्थनाना___ मोऽहमूर्जितकषायभुजङ्गमानाम्॥ ६९ ॥ जन्मावलीविषमवेषविवर्तनाभिः,
प्रेमप्रभृत्यभिनयैर्भवरङ्गभूमौ । मामानटन्तमिह मोहनटेन्द्रशास्त्या,
नोपेक्षितुं विवशमर्हसि विश्वबन्धो ! ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
[ १९ ] दीनाकृति हृतहृदं विवृतात्मवक्त्र
दन्तार्पिताङ्गुलिमलं गलदुष्णबाष्पम् । आक्रन्दवृन्दमुखरं शरणागतं मां,
पाहि प्रभो ! भुवनवत्सल! हे कृपालो! ॥७१॥ हित्वा भवन्तमपि लोकहितावतारं,
कस्याग्रतः कृपणरोदनमातनोमि । रौमि स्वयं यदि परं करुणासमुद्र !,
बाष्पप्रमार्जनविधौ मम नात्र कोऽपि ॥७२॥ अन्यन्न वच्मि वचसा न च चिन्तयामि,
चित्तेन नाथ ! वपुषा न करोमि कृत्यम् । मुक्त्वा तव स्तवनचिन्तनवन्दनानि,
यजन्मनः फलमिदं विशदं वदन्ति ॥७३॥ पापं पिधेहि मयि धर्मधियं निधेहि, __ बोधि विधेहि हृदि धेहि शमं चिराय । एतावदेव भगवन् ! भवतस्तु याचे,
यद्याचनामनुमनन्ति महानुभावाः ॥ ७४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
[२०] अस्मिन् प्रसीद विगुणेऽपि जने जिनेश !, ___ स्वामिन् ! जगच्छरण ! संहृतजन्मजाल!। लोकंपृण ! प्रणतपावन ! मां कृपा !, संपादय प्रतिभवं भवदेकनाथम् ॥ ७५ ॥
(शिखरिणीवृत्तम् ) अहो ! स्तोत्रद्वारा ध्रुवगतिगतोऽप्याशु भगवन् !, समायातस्त्रातर्हृदयसदने मे त्वममलः । प्रभो ! याचे वाचा रचिततिमिरोच्छेदसुभगां, चिरं कुर्या धुर्यामिह हि वसतिं जृम्भितजय!॥७६॥
( वसन्ततिलका ) श्रीविक्रमाद्गगननारदनन्दचन्द्रे ( १९९०), ____दर्भावतीस्थितवता जयसागरेण । स्तोत्रं प्रभोश्चरमतीर्थकृतः कृपाब्धे
श्चन्द्रामलाभिधमिदं विदधे विशुध्ध्यै॥७७॥ ॥ इत्यागमोद्धारक-तपागच्छाचार्य-श्रीमदानन्दसागरसूरिशिष्य-जयसागरेण विरचितं
श्रीचन्द्रामलस्तोत्रं संपूर्णम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________ श alchbllo llegro 分s PR 000000000000 0000000000 000000000000 oo00000000 00000000000000000000000000000 प्राप्तिस्थानम्१ संघवी अमृतलाल मोहनलाल C/o. घोघाना दरवाजे भाव न ग र. 0000000000000000000000cooooo 2 सलोत अमृतलाल अमरचंद पाली ताणा. .0000000000 00000000 ...00000000000 deg0000000000000 00000000000000 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com