________________
[ ४ ] माहात्म्यमीश ! मुनिभिस्तव गीतमुच्चैः,
शुभ्रं यशः शुभनिधे ! विबुधाधिनाथैः । लोकोत्तरं चरितमग्रसरैः कवीनां,
गीयेत केन गरिमालय! ते स्वरूपम् ॥ ११॥ सूर्याधिकं भुवनबोधकरप्रभावं,
चन्द्राधिकं सकलतापहरस्वरूपम् । इन्द्राधिकं प्रवररूपमनन्तनेत्रं, ___ विश्वाधिकातिशयमीश! भजे भवन्तम् ॥१२॥ गम्भीरतामधिगतोऽपि भृतोऽपि रत्नैः,
क्षारं गुणं यदि वमेदापि निस्तरङ्गः । किं वा तथापि जगदीश ! जडाशयोऽसौ,
रत्नाकरस्तव भजेदुपमानभावम् ॥ १३ ॥ दोषाकरः कमलखण्डरतिप्रणाशी,
शश्वत्कलङ्कमलिनात्मविभाविभूतिः । क्षीणां कलां किल धरन् कथमभ्रलम्बी, तारापतिस्तव तुलामलमभ्युपेतुम् ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com