________________
[३] मन्दोऽसमीक्षितकृतिव्यसनाभिभूतो, ___ हास्यो ध्रुवं मतिमतां ननु सिद्धमेतत् । हास्यास्पदं यदि विभो ! स्वयमात्मनोऽह
मन्यैः कृतं कृपणहास्यविलासदक्षैः ॥ ७॥ यस्मिन्नुदारमतयोऽपि बुधाः स्खलन्ति,
स्तोत्रे कथं स्फुरति तत्र जनोऽल्पबुद्धिः। स्वामिंस्तथापि मुखरीभवितास्मि यद्वा,
श्रद्धाग्रहः श्रुतवतामपि दुर्निवारः ॥८॥ 'मुग्धं हि मां गुणनिधे ! गुणकीर्तनाय,
भक्तिस्तव त्वरयते प्रतिबन्धवन्ध्यम् । स्वच्छन्दपूर्तिरथवा मम किं न लोके, __ क्रीडागृहं मृदुधियो रचयन्ति बालाः ॥ ९ ॥ आस्तां प्रभावभवनं स्तवनं तवेश !,
नामाभिधानमपि पापमपाकरोति । दूरे सुधास्नपनमूर्जितवीर्यमस्या, बिन्दुस्रवोऽपि विषवेगविनाशहेतुः ॥ १० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com