________________
[ २ ] भूतार्थवद्भिरभिनन्दनवर्णपूर्ण___ पद्यैः स्फुरत्सुभगबन्धगभीरभावैः । स्तोत्रैः स्तुतः शतमखप्रमुखैः सुरैर्यः,
स्तोष्ये जिनं तमहमन्तिमतीर्थनाथम् ॥३॥ वाचस्पतिः प्रथितवाग्विभवोऽपि नाथ !,
स्तोतुं क्षमः कथमनन्तगुणं भवन्तम् । किं वा जनो गणिततन्त्रविशारदोऽपि, __ तारागणं गणयति स्वयमन्तरिक्षे ॥४॥ कुण्ठा मतिर्वचनशक्तिरपार्थगुर्वी,
नोपासना बुधजनस्य सुरद्रुतुल्या । यत्नस्तथापि तव संस्तवनाय नाथ !, __ तद्दरदुर्ललितसाहसराजधानी ॥५॥ युक्तं हि तत्सकलविश्वविदाऽप्यशक्या, __ वक्तुं गुणास्तव जिनेश्वर ! जीवलोके । चित्रं पुनः श्रुतकलाविकलोऽपि सोऽहं,
स्तोत्रच्छलादतुलचापलमभ्युपैमि ॥६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com