________________
[ ५ ] अस्तङ्गमी जलदराहुनिरोध्यधामा,
नित्यं नभोभ्रमणकृत् परुषांशुराशिः। भानुर्यदा भवति नाथ ! तवोपमानं,
तुल्यस्तदाऽस्तु कृपणोऽपि नृपाधिपेन ॥१५॥ विश्वत्रयाय वितरन्तमनन्तभूति, __ दारिद्यदारणमुदाधियां प्रधानम् । मन्ये भवन्तमवलोक्य भुवि स्फुरन्त__ मन्तर्दधुर्भुवमधीश ! सुरद्रुमौघाः ॥ १६ ॥ दृष्टो भवान् भवभृतां भवमाभिनत्ति,
सम्यक् स्तुतः सकलमङ्गलमूलहेतुः । भक्त्यार्चितः सपदि सिद्धिसमागमाय,
किं किं न ते त्रिभुवनाभ्युदयाय देव ! ॥१७॥ आस्तां तवार्चनमचिन्त्यविभूतिभूमि
र्मोहाऽसनं सकृदपि श्रवणं गिरस्ते । चन्द्रस्तु तिष्ठतु सुधानिधिरिद्धधामा,
यञ्चन्द्रिकाऽपि घनधर्महरा धरायाम् ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com