________________
[ ७ ] स्याद्वादबोधनिपुणां निखिलाङ्गिवर्ग___ भाषात्मसात्परिणतां त्रिजगत्पुनानाम् । धन्यास्त्वनन्तगमभङ्गतरङ्गितां ते,
संसारमूलहरणीं गिरमापिबन्ति ॥ २३ ॥ स्थाने भवन्तमवनम्य यदूर्ध्वयानं,
व्यावर्त्तते कथमधः सुरचामरौघः । यद्वाऽभिगम्य भुवनेश्वरपादपद्म
मन्यत्र को ब्रजति नाथ ! वियोगभीरुः ॥२४॥ सिंहासने मणिविभोन्मिषिते निषण्णं,
त्वां वज्रिणो जिन ! जगत्प्रतिबोधयन्तम् । उन्नन्दयन्ति निनदैरुदयाद्रिमूर्ध्नि,
कोका दिवाकरमिवाऽऽस्मितपद्मखण्डम्॥२५॥ विष्वग्घतेषु भवता जगतां तमस्सु,
ज्योतिष्मतामधिपतिर्विधुताभिमानः । प्राप्तस्तवानुचरभावमिवाविभाति, ___ भामण्डलं ललितरश्मिभराभिरामम् ॥२६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com