________________
[ ८ ] धिग्धिग्धृतोऽसि निकृतोऽसि मृतोऽसि मन्द!
दृप्तोऽसि धृष्ट ! सति विश्वपतौ यदस्मिन् । इत्थं प्रतिक्षिपति दुन्दुभिरीश ! मोहं,
जाने नदन्नभसि नन्दितजीवलोकः ॥२७॥ तापत्रयीं त्रिभुवनेऽपि मुने ! निहन्सी
त्येतद्गुणप्रकटनाय गुणप्रियाभिः । मन्ये मृगाङ्कधवला ध्रियते तवोवं, __ छत्रत्रयी त्रिजगतामधिदेवताभिः ॥ २८ ॥ गोप्ता भवान् यदि विभो ! भुवनत्रयाणां,
गुप्तः कथं रजतहेममणित्रिसाल्या। गुप्तित्रयेण यदि वा ध्रुवमावृतो यो,
गोपायितुं जगदलं भगवन् ! स एव ॥२९॥ चञ्चन्नखद्युतिजुषोः सुरपद्मपङ्क्ति
व्याजाद्जन्ति तव नाथ ! पदोरधस्तात् । पुण्ये विहारसमये न्यसनोपचार
सञ्चारचारुविधयो निधयो नवापि ॥ ३० ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com