________________
[ ११ ] आलिङ्गनं विदधते ध्रुवमन्तरङ्ग
रागप्रबन्धमरुणाः प्रतिपादयन्तः। मन्ये मिथः परिपतत्प्रतिबिम्बयोगा
नमेन्द्रमौलिमणयोऽधिनखाः पुनस्ते॥३९॥ दृश्याविमौ तव मुनीन्द्र ! मरुत्पतेश्च,
सम्यक् समाहृतपरस्परसारवस्तू । अधिगलन्मुकुटमाल्यरजोविराजी, __ चूडामणिश्च शुचिचुम्बितपादरेणुः ॥ ४० ॥ वागंशुभिर्जिन ! तमोभरमन्तरङ्ग,
भित्त्वा दधासि भविनां हृदये पदानि । सद्यस्तमोदलमलं सवितेव लोके,
पद्माकरोदरनिषक्तसहस्रपादः ॥४१॥ चित्रं न नाथ ! शिथिलादरिणो भवन्ति, ___ त्वदर्शनेऽपि दुरितौघहरे परे यत् । किं वा स्फुरत्करभरो रजनीचराणां, ___ दृग्गोचरो दिनकरः किल कौशिकानाम् ॥४२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com