________________
[ १४ ] वृष्टो भवान् समरसेन निजात्मभूम्या
मार्दीबभूव हृदयं किल शूलपाणेः । प्लोषं गता कथमहो ! चिररूढमूला,
हिंसाबृहद्बततिरुच्छ्वसितो विवेकः ॥ ५१ ॥ पापात्मनोऽपि फणिनो भवदद्धिपद्म___ संस्पर्शनेन जिनपुङ्गव ! कौशिकस्य । मन्ये सुधात्वमगमद्विषमेव यत्स,
दिव्यश्रियामधिकृतोऽमृतभुग्बभूव ॥ ५२ ॥ यं प्राप्य वीर ! विकटं कटपूतनायाः,
शीतोपसर्गमघवर्गविडम्बितायाः। तेनैव तां विहितवानसि नष्टतापां,
धिष्णासु कौशलमहो! भुवनोत्तराणाम्॥५३॥ वर्षद्रजोत्रजगजोरगसिंहचक्रं,
यत्संगमेन विकृतं विबुधाधमेन । रोमापि ते मुनिपते ! चलितं न तेन, वज्रोदरे ब्रजति निष्फलतां शरौघः ॥ ५४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com