________________
[ १३ ] नृत्यत्कबन्धकनभश्चरमुण्डमाले, ___ वर्षच्छरव्रजवहद्रुधिरौघरौद्रे । व्यक्तैकवीररससङ्गमरङ्गभूमौ,
युद्धे जयन्ति भवतः स्मरणेन धीराः ॥४७॥ वातोध्धते जलनिधौ स्फुटनक्रपङ्क्ता
वावर्त्तगर्तपतनक्षतयानपात्राः । दिङ्मूढतामुपगतास्तव कीर्तनेन,
तीर्णापदो हि कलयन्त्यनुकूलकूलम् ॥४८॥ कुष्टक्षतक्षयभगन्दरदुष्टदेहाः,
प्रोद्यन्महोदरधरा मृतिमेषिणोऽपि । नामाक्षरस्मृतिसुधां तव ये पिबन्ति,
रूपश्रिया तनुभृतस्त्रिजगज्जयन्ति ॥ ४९ ॥ क्लिष्टाग्रवन्निगडरुध्धगतिप्रचारा,
व्यासञ्जितप्रखरशृङ्खलघृष्टगात्राः। उत्सृज्य बन्धनभवं भयमङ्गभाजः,
स्वस्थीभवन्ति हि भवन्तमनुस्मरन्तः ॥५०॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com