________________
[२०] अस्मिन् प्रसीद विगुणेऽपि जने जिनेश !, ___ स्वामिन् ! जगच्छरण ! संहृतजन्मजाल!। लोकंपृण ! प्रणतपावन ! मां कृपा !, संपादय प्रतिभवं भवदेकनाथम् ॥ ७५ ॥
(शिखरिणीवृत्तम् ) अहो ! स्तोत्रद्वारा ध्रुवगतिगतोऽप्याशु भगवन् !, समायातस्त्रातर्हृदयसदने मे त्वममलः । प्रभो ! याचे वाचा रचिततिमिरोच्छेदसुभगां, चिरं कुर्या धुर्यामिह हि वसतिं जृम्भितजय!॥७६॥
( वसन्ततिलका ) श्रीविक्रमाद्गगननारदनन्दचन्द्रे ( १९९०), ____दर्भावतीस्थितवता जयसागरेण । स्तोत्रं प्रभोश्चरमतीर्थकृतः कृपाब्धे
श्चन्द्रामलाभिधमिदं विदधे विशुध्ध्यै॥७७॥ ॥ इत्यागमोद्धारक-तपागच्छाचार्य-श्रीमदानन्दसागरसूरिशिष्य-जयसागरेण विरचितं
श्रीचन्द्रामलस्तोत्रं संपूर्णम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com