Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ [ ११ ] आलिङ्गनं विदधते ध्रुवमन्तरङ्ग रागप्रबन्धमरुणाः प्रतिपादयन्तः। मन्ये मिथः परिपतत्प्रतिबिम्बयोगा नमेन्द्रमौलिमणयोऽधिनखाः पुनस्ते॥३९॥ दृश्याविमौ तव मुनीन्द्र ! मरुत्पतेश्च, सम्यक् समाहृतपरस्परसारवस्तू । अधिगलन्मुकुटमाल्यरजोविराजी, __ चूडामणिश्च शुचिचुम्बितपादरेणुः ॥ ४० ॥ वागंशुभिर्जिन ! तमोभरमन्तरङ्ग, भित्त्वा दधासि भविनां हृदये पदानि । सद्यस्तमोदलमलं सवितेव लोके, पद्माकरोदरनिषक्तसहस्रपादः ॥४१॥ चित्रं न नाथ ! शिथिलादरिणो भवन्ति, ___ त्वदर्शनेऽपि दुरितौघहरे परे यत् । किं वा स्फुरत्करभरो रजनीचराणां, ___ दृग्गोचरो दिनकरः किल कौशिकानाम् ॥४२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22