Book Title: Chandramalstotram
Author(s): Jaysagar
Publisher: ZZZ Unknown
View full book text
________________
[ ९ ] मार्तण्डमण्डलविडम्बनडम्बरेण,
तेजोबजेन विलसत् कृशितान्धकारम् । सर्वस्वभूतमिव तीर्थकृदिन्दिराया,
युष्मत्पुरः स्फुरति धर्मद ! धर्मचक्रम् ॥३१॥ भित्त्वा मरुत्पथमधिष्ठितमग्रशोभं,
दूरोच्छितं चलपताकमनर्घ्यदण्डम् । इन्द्रध्वजं मुनिप ! मूर्त्तमुदीरयन्ति, ___ मार्ग शिवस्य सुधियस्तरुराजिरम्यम् ॥३२॥ एवंविधामधिकृतामधिगन्तुमीशो, __ भूतिं त्वमेव भुवनत्रितयेऽपि नान्यः । सर्वाः पतन्ति सरितः शुचिरत्नराशौ,
रत्नाकरे न च कदाचन गोष्पदेऽपि ॥ ३३ ॥ निर्ग्रन्थतामुपगतोऽपि परां परात्मन् !,
त्वं प्रातिहार्यकमलां कथमाबिभर्षि । अस्याः स्वरूपमिदमेव यतः परत्र, नावीनतीत्य रमते यतिपुङ्गवानाम् ॥३४॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22