Book Title: Chandramalstotram Author(s): Jaysagar Publisher: ZZZ Unknown View full book textPage 9
________________ [ ८ ] धिग्धिग्धृतोऽसि निकृतोऽसि मृतोऽसि मन्द! दृप्तोऽसि धृष्ट ! सति विश्वपतौ यदस्मिन् । इत्थं प्रतिक्षिपति दुन्दुभिरीश ! मोहं, जाने नदन्नभसि नन्दितजीवलोकः ॥२७॥ तापत्रयीं त्रिभुवनेऽपि मुने ! निहन्सी त्येतद्गुणप्रकटनाय गुणप्रियाभिः । मन्ये मृगाङ्कधवला ध्रियते तवोवं, __ छत्रत्रयी त्रिजगतामधिदेवताभिः ॥ २८ ॥ गोप्ता भवान् यदि विभो ! भुवनत्रयाणां, गुप्तः कथं रजतहेममणित्रिसाल्या। गुप्तित्रयेण यदि वा ध्रुवमावृतो यो, गोपायितुं जगदलं भगवन् ! स एव ॥२९॥ चञ्चन्नखद्युतिजुषोः सुरपद्मपङ्क्ति व्याजाद्जन्ति तव नाथ ! पदोरधस्तात् । पुण्ये विहारसमये न्यसनोपचार सञ्चारचारुविधयो निधयो नवापि ॥ ३० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22