Book Title: Chandramalstotram Author(s): Jaysagar Publisher: ZZZ Unknown View full book textPage 8
________________ [ ७ ] स्याद्वादबोधनिपुणां निखिलाङ्गिवर्ग___ भाषात्मसात्परिणतां त्रिजगत्पुनानाम् । धन्यास्त्वनन्तगमभङ्गतरङ्गितां ते, संसारमूलहरणीं गिरमापिबन्ति ॥ २३ ॥ स्थाने भवन्तमवनम्य यदूर्ध्वयानं, व्यावर्त्तते कथमधः सुरचामरौघः । यद्वाऽभिगम्य भुवनेश्वरपादपद्म मन्यत्र को ब्रजति नाथ ! वियोगभीरुः ॥२४॥ सिंहासने मणिविभोन्मिषिते निषण्णं, त्वां वज्रिणो जिन ! जगत्प्रतिबोधयन्तम् । उन्नन्दयन्ति निनदैरुदयाद्रिमूर्ध्नि, कोका दिवाकरमिवाऽऽस्मितपद्मखण्डम्॥२५॥ विष्वग्घतेषु भवता जगतां तमस्सु, ज्योतिष्मतामधिपतिर्विधुताभिमानः । प्राप्तस्तवानुचरभावमिवाविभाति, ___ भामण्डलं ललितरश्मिभराभिरामम् ॥२६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22