Book Title: Chandramalstotram Author(s): Jaysagar Publisher: ZZZ Unknown View full book textPage 7
________________ [ ६ ] तिष्ठन्त्वनन्तमहिमानि महेश ! लोके, ___ त्वन्निवृतिप्रभृतिपुण्यपदान्यहानि । जन्मापि ते जिनपते ! जगदुत्सवाय, सर्वं सतां भवति भद्रकरं हि वृत्तम् ॥१९॥ भास्वान् दिवा तपति पद्मवनं प्रबोध्य, रात्रिं विनोदयति कौमुदमोदमिन्दुः । नक्तंदिवा तपसि बोधयसे तमोघ्न नेकस्त्वमेव भगवन्नघहजगन्ति ॥२०॥ त्वामाश्रितः सुरनराहतसंनिधानं, ___ रक्तच्छदावलिरसौ विलसन्नशोकः । छत्रीभवन्मणिफणस्य फणीश्वरस्य, शोभां विडम्बयति रत्ननिधिस्थितस्य ॥२१॥ व्याख्यासदस्तलमणीनभिभूय मूनि, धत्ते पदं कथमसौ सुरपुष्पवर्षः । यद्वा पतन् जिन! तवाधियुगे किलोच्चैः__ स्थानं शुचिः कलयति प्रतिवादशून्यम् ॥२२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22