Book Title: Chandramalstotram Author(s): Jaysagar Publisher: ZZZ Unknown View full book textPage 5
________________ [ ४ ] माहात्म्यमीश ! मुनिभिस्तव गीतमुच्चैः, शुभ्रं यशः शुभनिधे ! विबुधाधिनाथैः । लोकोत्तरं चरितमग्रसरैः कवीनां, गीयेत केन गरिमालय! ते स्वरूपम् ॥ ११॥ सूर्याधिकं भुवनबोधकरप्रभावं, चन्द्राधिकं सकलतापहरस्वरूपम् । इन्द्राधिकं प्रवररूपमनन्तनेत्रं, ___ विश्वाधिकातिशयमीश! भजे भवन्तम् ॥१२॥ गम्भीरतामधिगतोऽपि भृतोऽपि रत्नैः, क्षारं गुणं यदि वमेदापि निस्तरङ्गः । किं वा तथापि जगदीश ! जडाशयोऽसौ, रत्नाकरस्तव भजेदुपमानभावम् ॥ १३ ॥ दोषाकरः कमलखण्डरतिप्रणाशी, शश्वत्कलङ्कमलिनात्मविभाविभूतिः । क्षीणां कलां किल धरन् कथमभ्रलम्बी, तारापतिस्तव तुलामलमभ्युपेतुम् ॥ १४ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22