Book Title: Chandramalstotram Author(s): Jaysagar Publisher: ZZZ Unknown View full book textPage 4
________________ [३] मन्दोऽसमीक्षितकृतिव्यसनाभिभूतो, ___ हास्यो ध्रुवं मतिमतां ननु सिद्धमेतत् । हास्यास्पदं यदि विभो ! स्वयमात्मनोऽह मन्यैः कृतं कृपणहास्यविलासदक्षैः ॥ ७॥ यस्मिन्नुदारमतयोऽपि बुधाः स्खलन्ति, स्तोत्रे कथं स्फुरति तत्र जनोऽल्पबुद्धिः। स्वामिंस्तथापि मुखरीभवितास्मि यद्वा, श्रद्धाग्रहः श्रुतवतामपि दुर्निवारः ॥८॥ 'मुग्धं हि मां गुणनिधे ! गुणकीर्तनाय, भक्तिस्तव त्वरयते प्रतिबन्धवन्ध्यम् । स्वच्छन्दपूर्तिरथवा मम किं न लोके, __ क्रीडागृहं मृदुधियो रचयन्ति बालाः ॥ ९ ॥ आस्तां प्रभावभवनं स्तवनं तवेश !, नामाभिधानमपि पापमपाकरोति । दूरे सुधास्नपनमूर्जितवीर्यमस्या, बिन्दुस्रवोऽपि विषवेगविनाशहेतुः ॥ १० ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22