Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 47
________________ चन्द्रलेखाविजयप्रकरणम्] [प्रथमोऽङ्कः आज्ञासिद्धः- अस्त्युत्तस्यां दिशि वैतान्यो नाम महागिरिस्तन्मेखलायां प्रसिद्धा मायापुरी नाम नगरी । तस्यामेकदा विद्याधरेश्वरविक्रमसेनस्य पुरतः प्रवर्तमाने प्रेक्षणीयके विद्याधरवध्वाश्चन्द्रलेखाया नृत्यन्त्याः कुतोऽपि प्रमादात् सञ्जाते तालपरिभ्रंशे आहितातमा नाम ब्रह्मराक्षसी लब्धच्छला विद्यापहारं चकार । ज्ञानबोधः- १°णं तस्स ईदिसो को वि णिओओ चिट्ठदि ? | आज्ञासिद्धः- नैवम्, किन्तु पूर्वबद्धवैरा राक्षसी, चन्द्रलेखया प्रियतमेन सह क्रीडार्थं ... तत्र गतया तस्याः पूर्वजन्मनि हंसीतनोः कुडमबिन्दुभिः कर्बुरीकरणेन प्रियवियोगो जनित इत्यादि महत्संविधानकमस्ति ।। ज्ञानबोधः- ११तदो संपदं कधं ठिदा चिट्ठइ चंदलेहा ? आज्ञासिद्धः- नियतदिनमवेत्य स्वस्य विद्यापहारं, ध्रवमजितबलायाः पादपद्मप्रसादात् । तदनु तदुपदेशादेव हंसीतनुः सा, ___ स्वरुचितपतिमाप्तुं चन्द्रलेखेयमास्ते ।। १७ ।।। . (मालिनी) ज्ञानबोधः- १२भयवं ता एदस्सा को पदी हविस्सदि ? | आज्ञासिद्धः- मुग्ध ! अयमेव, यो देव्या अत्राऽऽनयनाय तत्सन्निधौ स्थापनाय चास्माकमादिष्टः । इयन्ति भाग्यानि किमन्यत्र निवसन्ति ? | अनेनैव प्राग्जन्मनि अष्टोत्तरलक्षसङ्ख्यया पञ्चपरमेष्ठिमन्त्रैः साधिताया अपि महाविद्यायाः फलमात्मनः अल्पायुष्ट्वान्न गृहीतम् । तदयं जन्मान्तरसाधितविद्योऽपि कर्मानुसारि बह्वपायेभ्यो रक्षणाय देव्या मम समर्पित इत्यस्य स्वगृहादस्मत्प्रयोगेण बहिर्वासनमपि सुन्दरम् । तथाहि - आसेदुषः स्वजनसन्निधिमेव पुंस - स्तत्तन्महद् भवति कस्य न नाम दुःखम् । चन्द्रस्य पश्य रविपार्श्वगतस्य हानि - दूरस्थितस्य विलसत्यपरा समृद्धिः ॥ १८ ॥ (वसन्ततिलका) १०. - ननु तस्या ईदृशः कोऽपि नियोगः तिष्ठति ? ११. - ततः साम्प्रतं कथं स्थिता तिष्ठति चन्द्रलेखा ? १२. - भगवन् ! तद् एतस्याः कः पतिः भविष्यति ? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156