Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
पञ्चमोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
शिक्षा त्वियं मनसि पुत्रक ! धारणीया, देव्याः
समाधिविषये नहि यद् विरम्यम् ।। ४५ ॥ (वसन्ततिलका) प्रसङ्गायातं च किञ्चिदाशास्महे -
तस्मिन्नेव गिरौ प्रसिद्धनगरे मायापुरीसंज्ञके तां विद्याधरचक्रवर्तिपदवीं प्राप्नोत्वयं ते सुतः । सर्वत्रास्खलितप्रचारविभवैः सिद्धेस्त्वमेभिर्वृतो । नन्द्याः पुण्यवधूद्वयाञ्चिततनुर्यावत् त्रिलोकीतलम् ।। ४६ ॥
- (शार्दूलविक्रीडितम्) (अथाङ्के समुपवेश्य पाणिपङ्कजेन मुखमुन्नमय्य) तात ! किं ते भूयः
प्रियमुपकरोमि । विजयेन्द्रः- अतः परमपि किं प्रियमस्ति । तथापीदमस्तु ।।
अजितदेवचन्द्रशेषराज विदितनाथयागतातमान | सुभगनागयाग देविभाग हृदय याहि पाहि धेहि शं नः ॥ ४७ ।।
ये केनचित् विद्याविशेषेण न ज(जी)यन्ते तेषु दीव्यसि तेषु राजसे तान् वा देवयसि क्रीडयसि उत्कृष्टाष्टाङ्गमहानिमित्तसमन्वितत्वात् श्रीमतादेवचन्द्रेण श्रीशेषभट्टारकेण शेषराजेनापि विदित ज्ञात, जानीते हि ज्ञास्यति च त्वां श्रीशेषभट्टारकस्तत्पूजया ऽवाप्तमहानिधित्वात् तथा विदितनाथेभ्योऽपि परमयोगिभ्योऽवाप्तं विस्तृतं माननं-पूजनं तत्त्वया, नाथा अपि सिद्धपुत्रत्वात अष्टाङ्गं महानिमित्तज्ञातत्वेन पूजयन्ति तेषां गुरुत्वात्, किं पुनरन्ये गुरुलाघवादिवद् धर्मप्रधानत्वात् प्रधानसौभाग्येन पूज्या देविनी भा प्रभा भवतो, यत आहितातमाप्रभृतयो महाप्रभावा अपि सोढुं न शक्ता न च वैरायंतो(ते) अग कठिनानां हृदये यासि कथमन्यस्य(था)कठिनहृदया नाथा(:)पूजयन्ति भवन्तम् । समाधिशब्दत्वात अहीन(न) दुष्टान ये रक्षन्ति दुष्टनागाः अहयश्च तानपि धारयसि पोषयसि निर्भयत्वात्, को हि त्वत्तो अन्यः शक्तिमानप्यात्मसन्निधौ वैरिणो बिभर्ति कियन्तो वा तवातिशया वर्णयितुं शक्यन्ते । भवप्रसादावाप्तसर्वसमीहितसिद्धिरहमिति प्रार्थनीयं नास्ति, सुखं च नः मम चन्द्रलेखाया देव्याश्च सपुत्रायाः तव प्रसादाद्विजयी च संवृत्तः । विजय इति नाम्ना च प्रसिद्धिमाप एव एतच्चाशास्महे ।
अजितदेवचन्द्र शेषराज विदितनाथ यात तात मान ।
९८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156