Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 134
________________ [चन्द्रलेखाविजयप्रकरणम् हे देविप्रभे ! मानव्येव भवती मनोरपत्यं तव भर्त्ता दृढप्रतिज्ञत्वात् कथमन्यथा दुष्करममुं यागं साधयति । अनेन साजात्यवैवाह्मे सपत्नीत्वं सूचितम् । शेषराजं यावत् चन्द्रं यावत्, अगं सुमेरुं यावत् अशेषचन्द्रमा परिपूर्णचन्द्रोज्ज्वला तातयागस्य तता या मा लक्ष्मीः सा तावत्कालं राजतामेव । सर्वेषां मानदानाय पूजाप्रदानाय च विदे ज्ञानार्थं चेति । पञ्चमोऽङ्कः ] याग याग, देव तात, देवि देवि, शेष शेष, चन्द्र चन्द, मान मान, राज राजेति श्लोकः कोष्ठकत्रये यागया इति द्वितीयपंक्तिकोष्ठके तात इति उपरितनकोष्ठकद्वये चन्द्रराज इति अधस्तनेऽपि चन्द्रराज इति मूर्ध्नि च देव इति अधः देवि इति मध्ये मा इति तदधो न इति मुखे शेष इति पदकबन्धः । (नेपथ्ये) ता एताः प्रथिताः कुतोऽपि सहसैवाष्टौ महासिद्धयो, देव्याः पादपुरः स्थितं विजयिनं प्राप्ता वरीतुं द्विजम् । नृत्यत्वप्सरसां गणः प्रमुदिता गायन्त्यमी किंनरा, योगिन्यः सकला अपि स्वसदनं गच्छन्तु दत्त्वाऽऽशिषः || ३६ || (शार्दूल.) देविप्रभा - तत्त्वप्रपञ्चन ! इत ऊद्धर्वं चरुपाकाय प्रस्तुते कर्मणि प्रवर्तितव्यम् । तद्दिव्यदुग्धमपि समायातमेव जानीहि । ( इत्युक्त्वा विजयस्य कण्ठे पारिजातमालामारोप्य तिरोदधे ) [ततः प्रविशति पाटलिपुत्रस्थः परमानन्दः ] परमानन्द:- अहह वैचित्र्यं किमप्यस्य सिद्धाश्रमस्य ! स्वस्था यत्र मृगी मृगारिनखरैः कण्डूयते स्वं वपुर्यत्र छागवृकौ भुजङ्गनकुलौ प्रीत्या मिथः क्रीडतः । तस्मिन्नत्र समस्तवैरशमनेऽप्येकः परं नोज्झति क्रोधं धर्महरिः पलायनपरे दीनेऽपि पापद्विपे ॥ ३७ ॥ तदभ्यन्तरं प्रविशामीति (परिक्रम्यावलोक्य) कृत्वा देवार्चनं सैष प्रभुरास्थानमञ्चति । लीलालापैरपि ब्रह्म प्रपन्नेषु तनोति यः ।। ३८ ।। ( उपसर्प्य) नमो गुरुम्यः (इति साष्टाङ्गं प्रणमति) (अनुष्टुप्) आज्ञासिद्धः - अयि परमानन्द ! हर्षाकुल इव दृश्यसे, कुतः सम्प्रत्यागम्यमानमस्ति । Jain Education International ९६ For Private & Personal Use Only : (शार्दूल.) www.jainelibrary.org

Loading...

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156