Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
परिशिष्टम्-२]
[चन्द्रलेखाविजयप्रकरणम् वारकोऽभूधदा यस्याः सर्वालंकारभृत्तदा ।
स्नानांगरागलिप्तांगी तेन रन्तुं ससज्ज सा ।। १९५ ।। अन्यदाऽस्थुरुपशान्तवेशाः सर्वाश्च तस्त्रियः ।
अन्यथाऽशिक्षयत्ताः स तर्जनाताडनादिभिः ।। १९६ ।। अतीर्ष्यालुतया तासां रक्षणार्थं समुद्यतः ।
न जातु स गृहद्वारं सौविदल्ल इवामुचत् ।। १९७ ।। भोजनं स्वजनेभ्योऽपि न सोऽदत्त निजे गृहे । .
नाभुक्त स्वयमप्यन्यगृहे तासामविश्वसन् ।। १९८ ।। अन्यदा प्रियमित्रेणानिच्छन्नपि कथंचन ।
निन्ये निजगृहे भोक्तुमिदं मैत्र्या हि लक्षणम् ।। १९९ ॥ तदा च दध्युस्तत्पल्यो धिग्ऋद्धिं धिक् च यौवनम् ।
धिग्जीवितं च तिष्ठामो यद्गुप्ताविव यन्त्रिताः ।। २०० ।। यमदूत इव द्वारं पापः पतिरयं हि नः ।।
न जातु मुंचति चिरादद्य साध्वन्यतो ययौ ।। २०१ ।। तिष्ठामः स्वेच्छया तावत् क्षणमद्येति बुद्धितः ।
स्नात्वाङ्गरागमाकल्पं वरमाल्यादि चादधुः ।। २०२ ।। ... यावद्दर्पणमादाय स्वं पश्यन्त्योऽवतस्थिरे ।
तास्तावदाययौ स्वर्णकारो दृष्ट्वा च सोऽकुपत् ।। २०३ ।। तत्रैकां महिला पापः स तथाऽताडयद् भृशम् ।
यथा व्यपादि सा दन्तिपादाक्रान्तेव पद्मिनी ।। २०४ ।। मन्त्रयाञ्चक्रिरेऽथान्या हनिष्यत्येष नोऽपि हि ।
संभूय हन्मस्तदमुं रक्षितेनामुना हि किम् ? || २०५ ।। एवं विचिन्त्य तास्तस्मै चक्राणीव प्रचिक्षिपः ।
शतानि पंचैकोनानि दर्पणानामशंकिताः ।। २०६ ।। विपेदे सोऽपि तत्कालं सानुतापाश्च ताः स्त्रियः ।
चितावञ्चालयित्वौको व्यपद्यन्त क्षणादपि ।। २०७ ।। सानुतापतया ताश्चाकामनिर्जरया मृताः ।
शतानि पंचैकोनानि मनुष्यत्वेन जज्ञिरे ।। २०८ ।। दैवदुर्योगतश्चौर्यजीविनो मिलिताः क्रमात् ।
एकत्र दुर्गे तिष्ठन्तश्चौर्यं संभूय कुर्वते ।। २०९ ।।
१०६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156