Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
चन्द्रलेखाविजयप्रकरणम्
[पञ्चमोऽ देवी- (तं तथा दृष्ट्वा) -
नमस्कारपरब्रह्मलीनो विघ्नशतैरपि । न यः क्षोभयितुं शक्यः स एष मम पुत्रकः ॥ ३५ ॥ (अनुष्टुप)
(सानन्दम्) वत्स ! विरम ध्यानात्, लभस्व स्वसमीहितम् । मुञ्च ध्यानावेशक्लेशम्। शेषमानदेवियातराजनाथनामदेवतात । याततातमान शेष राजमानदेवराजमान देविनाथमाननाग । .
नाथमाना देवी तुष्टा सती यागं प्रयच्छति । हे वत्स ! विजय ! स्थिरत्वात् शेषकल्पः स्थिरत्वं कार्यसिद्धावंगं वियातप्रगल्भ उपायज्ञ मानदे पूजाप्रदे ना(ग)मदे दुष्टखण्डके माने आत आगच्छ । सिद्धत्वात् तं तातं यागं अवपालय तत्रैव च राज शोभस्व नाथ स्वामी भव, एवं च सिद्धप्रयोजनत्वादिष्टान् देवताविशेषान् अत पूजार्थं गच्छ । तत्र प्रधानत्वात् शेषराजं तथा देवराजं परमैश्वर्यवन्तं पृथिवीमण्डलाधिष्ठातारमिन्द्रम् । स्वर्गगमनेन तत्सिद्धिरुक्ता । तथा देविनाथं दीव्यन्ति क्रीडन्ति सर्वत्रेति योगिनस्तेषां नाथं तव गुरुमाज्ञासिद्धमनेन सर्वत्र अस्खलितक्रीडात्वं ध्वन्यते । नागानां पातालनिवासिनां यागमण्डलाधिष्ठातृणां नाथान् ता विस्तृतः सन् गच्छ पातालगामिनां चाह तेषां पूजां च गृहाण तुष्टा हि ते सर्वे तव सत्त्वातिशयेन प्राणो हि सर्वेषां भवान् संवृत्त इति प्रत्येकं विवक्षितसम्बन्धत्वात् आने(ते)ति भूयसा निर्देशः अनेन अणिमादीनां सिद्धिरुक्ता | तत्र चतुःकोणं पृथ्वीमण्डलं संस्थाप्य चतसषु दिक्षु अग्निमण्डलं मध्ये चाऽपमण्डलं तत्राग्निमण्डलमूर्द्धनि क्रमेण शेषमानदेवियातपदानि, पृथिवीमण्डलको राजनाथनागदेवपदानि, मध्ये तातपदं संस्थाप्य तातपदं मानते सम्बन्धनीयम् । ततः शेषराजपदं मानेन ततो देवराजपदं ततो देविनाथपदम्, ततो नागनाथपदमिति स्थापना ।
___ अनेन स्थिरः सन् तेजोमयरूपः अमृतवर्षी चिरञ्जीवेति सूचितम् । देविप्रभा- २तत्तपवंचणा ! पच्चक्खीभूदा देवी । ता एहि मंडलसंनिहिदा हवेमो । तत्त्वप्रपञ्चन:- एवं क्रियते । (सर्वे तथा कुर्वन्ति, तुष्टा देवी देविप्रभा वर्धापयति) ४२ देवि. तत्त्वप्रपञ्चन ! प्रत्यक्षीभूता देवी । तावद् एहि मण्डलसन्निहिता भवामः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org:
Loading... Page Navigation 1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156