Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 112
________________ चतुर्थोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् लिखिताऽलङ्कृतं किमप्यनङ्गलेखरूपं वस्तु किं तव हस्ते प्रहितमस्ति उत न। चन्द्रिका - अनवरतभवत्स्मरणप्रवणतया मुहुर्मुहुर्पूर्णिताङ्गी कथमिव प्रहिणोतु । शृणु - 'एका प्रयाति कथमप्यपराभ्युपैति मूर्छा द्वयोरपि तयोरभवद्यदान्तः । लेखं तदा तव कृते सुतनोर्लिखन्त्याः स्वस्तीति ता (ना) द्यलिपिरप्यगमत् समाप्तिम् ।। २८ ।। (वसन्ततिलका) विजयेन्द्रः- सत्यमेतत् । स्तम्भादयो भावाः कथमपि न्यक्कियन्ते मूर्छा त्वेकाऽपि सर्वाङ्गं विधुरयति जन्तुम् । तत् कथं द्रष्टव्या प्रिया ? (सोन्मादम्) चेतः ! कथं विधुरतां भजसे समन्तात् नन्वस्ति सा स्थितिमती निकटे तवैव । तस्मिन्नगे वसति यत् तदिदं व्यलीकं ___ त्वं प्रत्ययं निजदृशः कुरु मा परेषाम् ।। २९ ।। (वसन्ततिलका) (ततः प्रविशति निजदृष्टिः) निजदृष्टिः- १३आणत्तम्हि तत्तभोदीए सिरिचंदलेहाए जं तए विजइंदस्स अणंगलेहो समप्पइदव्यो । ता कह सो मये दट्ठव्यो । (पुरो अवलोक्य) एदु य्येव वट्टदि । (उपसप्य) तत्तपवंचणा ! णिवेदेह मं विजइंदाय । (तत्त्वप्रपञ्चनः प्रत्यभिज्ञाय तथा करोति) विजयेन्द्रः- (दृष्ट्वा औत्सुक्यं नाटयति)किमियं निजदृष्टिः ? किं कारणं चन्द्रिकाया अन्वागमने निजदृष्टे: ? | कच्चित्कुशलं प्रियायाः ? | 'तुलना - वेविर-सिण्ण-करंगुलि-परिग्गह-क्खलिअ-लेहिणी-मग्गे । सोत्थि च्चिअ ण समप्पइ पिअसहि लेहम्मि किं लिहिमो ।।-सरस्वतीकंठाभरणे पृ.६३७ छाया - वेपनशील - खिन्न-कराङ्गुलि-परिग्रहस्खलितलेखिनीमार्गः । स्वस्त्येव न समाप्यते प्रियसखि ! लेखे किं लिखामः ।। १३. निज. आज्ञप्तास्मि तत्रभवत्या श्रीचन्द्रलेखया यत् त्यया विजयेन्द्रस्य अनङ्गलेखः समर्पितव्यः । ततः कथं स मया दृष्टव्यः । इत एव वर्तते । तत्त्वप्रपञ्चन ! निवेदय मां विजयेन्द्राय । ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156