Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
पञ्चमोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
एताभिरेव सकलोऽप्युपहारयोगः
संसूत्रितो नियमतः फणिलोकभर्तुः । कुण्डानि यानि किल पञ्च भवन्ति यागे
खातानि तान्यपि तदीयगिरा भुजङ्गैः ।। १४ ।। (वसन्ततिलका) विजयः- (परिक्रम्य सानन्दम्)
एतद्वितानमभितः कृतमन्तरिक्षे केनात्र चित्रविलसन्मणिरश्मिजालम् । यद् वीक्ष्य निश्यपि मुदा दिनसम्भ्रमेण
कोकप्रिया भजति वल्लभसङ्गसौख्यम् ॥ १५ ॥ (वसन्ततिलका) रत्नपुनः- तात किमेतत् पुरतो गगनतलचुम्बि विकटशिलोच्चयरूपं दृश्यते । (तत्त्वप्रपञ्चनः-) चक्रवर्तिन् मां पृच्छ, किमत्र तेन ।
गुरूणामादिशिष्येण खेचरेण चरोः कृते ।।
समुत्पाद्य कृतौ चुल्लीर्विन्ध्यसान्ध्यनगाविमौ ॥ १६ ॥ (अनुष्टुप्) देविप्रभा- ३३अजउत्त ! का उण एदाउ मंडलबाहिराहि रामाउ खेलंति ।। तत्त्वप्रपञ्चनः- योगिन्यश्चतुरधिका, षष्टिर्मधुपात्रराजिकरकमलाः ।।
तव दयितपरमसिद्धयै प्रीताः खेलन्ति स्वकरैस्ताः ।। १७ ।। (आया) (विजयं प्रति) वयस्य ! त्वर्यताम् । यतः समये प्रवेशनीयम् (अत्र १७० तमं पत्रं त्रुटितमस्ति ।)
(रत्नपुऑ प्रति) वत्स ! त्वयाऽप्यत्र मण्डलपरिकरे कलितकरवालेनोत्तरसाधकत्वे स्थातव्यम् । अजितदेवेत्यादिमन्त्रं शिखाबन्धाय
उपदिशति (सर्वे यथास्थानमध्यासते) विजयेन्द्रः- (उद्धतक्रमसन्मुखगमनं नाटयति क्रमाद् (क्रमोद्धार) द्वारमवलोक्य) अहह !
यथावर्तामण्डलस्य कामाक्षा(क्ष्या)दयः समस्ता अपि देव्यः स्वस्वस्थाननिवासेन यथाक्रममालिखिताः तन्नमः सर्वाभ्यो देवताभ्यः (इति प्रणमति) (चतुःषष्टिदेवतानामन्तःप्रतिष्ठितसमयाभिधानं परमदेव्याः पादपीडाधस्तात् आलिखितान् नवमहासिद्धान् विलोक्य सचमत्कारम्) एते तिग्ममहःशशिध्रुवमहासिद्धा दिवो भूषणं
द्रोणापत्यविभीषणाक्षमथना नेपथ्यमेते भुवः । ३३. दे. आर्यपुत्र ! काः पुनर् एताः मण्डलबहिः रामाः खेलन्ति ।
८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156