SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् एताभिरेव सकलोऽप्युपहारयोगः संसूत्रितो नियमतः फणिलोकभर्तुः । कुण्डानि यानि किल पञ्च भवन्ति यागे खातानि तान्यपि तदीयगिरा भुजङ्गैः ।। १४ ।। (वसन्ततिलका) विजयः- (परिक्रम्य सानन्दम्) एतद्वितानमभितः कृतमन्तरिक्षे केनात्र चित्रविलसन्मणिरश्मिजालम् । यद् वीक्ष्य निश्यपि मुदा दिनसम्भ्रमेण कोकप्रिया भजति वल्लभसङ्गसौख्यम् ॥ १५ ॥ (वसन्ततिलका) रत्नपुनः- तात किमेतत् पुरतो गगनतलचुम्बि विकटशिलोच्चयरूपं दृश्यते । (तत्त्वप्रपञ्चनः-) चक्रवर्तिन् मां पृच्छ, किमत्र तेन । गुरूणामादिशिष्येण खेचरेण चरोः कृते ।। समुत्पाद्य कृतौ चुल्लीर्विन्ध्यसान्ध्यनगाविमौ ॥ १६ ॥ (अनुष्टुप्) देविप्रभा- ३३अजउत्त ! का उण एदाउ मंडलबाहिराहि रामाउ खेलंति ।। तत्त्वप्रपञ्चनः- योगिन्यश्चतुरधिका, षष्टिर्मधुपात्रराजिकरकमलाः ।। तव दयितपरमसिद्धयै प्रीताः खेलन्ति स्वकरैस्ताः ।। १७ ।। (आया) (विजयं प्रति) वयस्य ! त्वर्यताम् । यतः समये प्रवेशनीयम् (अत्र १७० तमं पत्रं त्रुटितमस्ति ।) (रत्नपुऑ प्रति) वत्स ! त्वयाऽप्यत्र मण्डलपरिकरे कलितकरवालेनोत्तरसाधकत्वे स्थातव्यम् । अजितदेवेत्यादिमन्त्रं शिखाबन्धाय उपदिशति (सर्वे यथास्थानमध्यासते) विजयेन्द्रः- (उद्धतक्रमसन्मुखगमनं नाटयति क्रमाद् (क्रमोद्धार) द्वारमवलोक्य) अहह ! यथावर्तामण्डलस्य कामाक्षा(क्ष्या)दयः समस्ता अपि देव्यः स्वस्वस्थाननिवासेन यथाक्रममालिखिताः तन्नमः सर्वाभ्यो देवताभ्यः (इति प्रणमति) (चतुःषष्टिदेवतानामन्तःप्रतिष्ठितसमयाभिधानं परमदेव्याः पादपीडाधस्तात् आलिखितान् नवमहासिद्धान् विलोक्य सचमत्कारम्) एते तिग्ममहःशशिध्रुवमहासिद्धा दिवो भूषणं द्रोणापत्यविभीषणाक्षमथना नेपथ्यमेते भुवः । ३३. दे. आर्यपुत्र ! काः पुनर् एताः मण्डलबहिः रामाः खेलन्ति । ८८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy