________________
चन्द्रलेखाविजयप्रकरणम्]
[पञ्चमोऽङ्कः
(अथ नगरमभितोऽवलोक्य -)
देवः पातञ्जलिः सिन्धुर्नदी गोनपत्तनं ।
सिद्धाअनवनं वेधा] स्त्रयीमेनां ससर्ज सः ।। ८ ॥ (अनुष्टुप्) देविप्रभा - २२हं पुण एवं मन्ने कमलासणसिद्धिबाहिरं एयं ।
जं नयरस्स नदीए एसो पातंजली वेहा ॥ ९ ॥ (आय) रत्नपुनः- अहमेवं विकल्पयामि । यत् श्रुतिष्वपि सिन्धुपरिवृतगोनर्दनगराधिष्ठितस्य
पातञ्जलेर्गीयमानत्वादिति त्रितयस्य । कर्ता न कोऽप्यस्य न कोऽपि हर्ता परस्य सम्भूषणतां गतस्य । अनश्वरस्याम्बरवन्महद्धे - ब्रह्मादयस्तेऽपि विदन्ति नादिम् ।। १० ॥
(उपजाति) तत्त्वप्रपञ्चनः- अहं त्विति विचारयामि । यत् -
गोनर्दनगरात् स्वर्गो विश्वं सिन्धुनदीजलात् ।
पातञ्जलेस्तु पातालं त्रितयं त्रितयादभूत् ।। ११ ॥ (अनुष्टुप्) (विजयः-) सम्प्रति व्याख्यापरैरेव स्थातव्यं, किं कर्तव्यं कर्मणि न प्रस्तूयते । तत्त्वप्रपञ्चनः- (विजयं प्रति) साधु वदत्ययं, समुपस्थितः समयः । ब्रह्मन् !
विलोकय । एतेऽष्टास्वपि दिक्षु मण्डलभुवः संरक्षणाय क्षणादप्यष्टौ कुलपन्नगाः समुदगुः पातालमूलाद्दिवम् । इत्थं श्रीभुजगाधिपेन सततं सञ्चिन्त्यमाने शिवे
किं दूरे क्वचिदप्यमूस्तव भवन्त्यष्टौ महासिद्धयः ।। १२ ।। (शार्दूल.) विजयेन्द्रः- (तत् तथा दृष्ट्वा) ननु मण्डलान्तर्दीपिका(अ)प्युद्योतिताः केनापि
___ कलकलश्चायं केषाञ्चिदाकर्ण्यते ।। तत्त्वप्रपञ्चन:- (विहस्य)
नैते दीपाः स्थापिताः कैरपीह जल्पाको वा कोऽपि नास्त्यत्र तावत् । रत्नज्योतिर्भास्वराभिः फणाभिर्धाम्यन्त्येतास्त्वत्कृते नागकन्याः ।। १३ ॥
(शालिनी) ३२. दे. अहं पुनरेवं मन्ये कमलासनसिद्धिबाह्यमेतद् ।
यद् नगरस्य नद्या एष पातञ्जलिर्वेधाः ।।
८७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org