SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम्] [पञ्चमोऽङ्कः अप्येते बलि-शेष-कूर्मपतयः पातालभूषाकृतो यस्याः पादतले वसन्ति समया सा नस्तनोतु श्रियम् ।। १८ ॥ (शार्दूल.) (इत्युपविश्य मन्त्रसंस्कृताङ्गसमयाय यतते नेपथ्ये) प्राणेभ्योऽप्यधिकं नियुज्य सुहृदं देविप्रभारक्षणे संस्थाप्योत्तरसाधकत्वविषये श्रीरलपुझं नृपम् । उद्युक्तः स्थिरमानसेन समयं गृह्णाति वीरव्रतं प्रख्यातो विजयेन्द्र एष समया देव्याः पुरः सम्प्रति ॥ १९ ॥ (शार्दूल.) (विजयेन्द्रः अन्तसमयक्रमोद्धारं दक्षिणेन परिक्रामन् श्रीमदजितदेवाग्रतः स्थापितमण्डलान्तः प्रविशति) अव्यक्तः प्रभुरभुतेन महसा केनापि युक्तो नरै ब्रह्माद्यैरपि धूवनेऽनवरतध्यानप्रसक्तैरपि । सोऽयं गोचरतामुपैति सहसा यन्मन्त्रविस्फूर्जितै - रप्यस्मादृशि ते जयन्ति गुरवो विश्वत्रयीविश्रुताः ॥२०॥(शार्दूल) (उपसप्य) बद्धानुरागाय सदैव मुक्तौ कंदर्पवीरे कदनोद्यताय | सौन्दर्यलक्ष्मीसमलङ्कृताय तथापि शान्ताय नमोऽस्तु तुभ्यम् ।। २१ ।। (उपजातिः) एवं श्रीमदजितनाथं स्तुत्वा पञ्चकुण्डयागे निध्यधिष्ठातृणां नागानां निर्विषीकरणाय समीहितसिद्धये च सुधाकलशेन अजितबलादिमुखेन निर्विषीकरणादिदमाह - याग याग देवि देवि तात तात देव देव । शेषशेष चन्द्रचन्द्र राजराज मानमान ॥ २२ ॥ (अनुष्टुप्) हे 'देवि' ! अजितबले साक्षाद्देवता भवती, न च देवतानां किञ्चिदसाध्यमस्ति, हे शेषराज ! 'तातो' भवान्, न च तातस्यापत्यं प्रति किमप्यदेयमस्ति । हे देवराज ! पृथ्वीमण्डलाधिष्ठितः देवोऽसि त्वं, मनसा देवानामिति मानसी सिद्धिर्भवत इति मदभिलषिते यतस्व इति कातराणां मानसाण्डके देशे विशिष्टे स्थितानां यागाय निध्यधिष्ठातृणामहीनामशेषं विषं अत्यजत (अतत?)क्षिपत यूयं, यथाऽविषं भवति । विषाभावे तेषां रज्जुप्रायत्वात् यागः सुग्रहः स्यात् तथा अवत रक्षत मामुपद्रवेभ्यो देशे मानदे स्थितं यथा या गसुखं सिध्यति तत्सिद्धौ ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy