SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् मदीया मा लक्ष्मीः पूर्वोपार्जिता स्फीता सकलजनचमत्कारकारित्वेन विदिता अशेषचन्द्रमसस्तुल्या परिपूर्णाऽराजत मम विदे प्रसिद्धये ज्ञानाय च यथाऽवस्थितस्वपररूपपरिज्ञानशाली जायेय । मानदेव ! यथाहं पूजाशाली दुर्वृत्तमानखण्डकश्च भवामीति सुधाकलशात् स्थापनाऽवसेया। तदेवं श्रीमदजितबलादीन् समीहितसिद्धये स्मृत्वा अजितदेवेत्यादि पञ्चपरमेष्ठिमन्त्रं मनसि विन्यस्य षोढान्यासेनात्मानं नियम्य श्रीमदजितबलां देवतां प्रणिधाय ध्यानमुद्रां नाटयति) (नेपथ्ये) नत्वा क्रमोद्धारमयं महौजाः क्षिप्त्वाऽपसव्यं जिनमण्डलस्थः । स्तुत्वाऽथ भक्त्या परया गुरुं च देवं च तद्ध्यानमलङ्करोति ।। २३ ।। (उपजातिः) तत्रैव (साशङ्कम्) आः किं व्योमभुवः पतत्यतिमहत् संचूर्ण्य यत् पर्वतान्; विश्वक्षोभविधायि मण्डलमभि ज्वालाभिरुड्डामरम् । (सानन्दम्) केनाप्यद्भुतसाहसेन सहसा निर्गत्य पातालतः क्रोधान्धेन हठात् प्रसार्य वदनं वेगादिदं ग्रस्यते ।।२४|| (शार्दूल.) देविप्रभा - ३ किं एवं दुवारे विजुपुंजु व्व तक्काले दिळं [नटुं] च । तत्त्वप्रपञ्चन:- त्वं येनापहृता पूर्वं भ्राता तस्य सहोदरः । करोति विघ्नसंघातं तं निराकुरुते फणी ।। २५ ॥ (अनुष्टुप्) देविप्रभा - ३५णं तत्त्वपवंचण ! किं एदं पुरुषदो जुन्हापुंजेण अलक्खभयं सयलदिसामुहाइं उज्जोतयंतं धवलायवत्ततले दीसदि । तत्त्वप्रपञ्चनः- सहस्रभानुः फणरत्नकान्त्या शरीरतेजःपटलैस्तु चन्द्रः । एष स पातञ्जलिनागराजस्त्वद्भर्तृसिद्धयै दिशतीह नागान् ।। २६ ॥ (उपजातिः) ३४. देवि. - किम् एतद् द्वारि विद्युत्युञ्ज इव तत्कालं दृष्टं(नष्ट) च । ३५ देवि. ननु तत्त्वप्रपञ्चन ! किम् एतत् पुरुषतः ज्योत्स्नापुञ्जन अलक्ष्यभयं सकलदि मुखानि उद्द्योतयद् धवलातपत्रतले दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy