Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
पञ्चमोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
मदीया मा लक्ष्मीः पूर्वोपार्जिता स्फीता सकलजनचमत्कारकारित्वेन विदिता अशेषचन्द्रमसस्तुल्या परिपूर्णाऽराजत मम विदे प्रसिद्धये ज्ञानाय च यथाऽवस्थितस्वपररूपपरिज्ञानशाली जायेय । मानदेव ! यथाहं पूजाशाली दुर्वृत्तमानखण्डकश्च भवामीति सुधाकलशात् स्थापनाऽवसेया। तदेवं श्रीमदजितबलादीन् समीहितसिद्धये स्मृत्वा अजितदेवेत्यादि पञ्चपरमेष्ठिमन्त्रं मनसि विन्यस्य षोढान्यासेनात्मानं नियम्य श्रीमदजितबलां देवतां प्रणिधाय ध्यानमुद्रां नाटयति)
(नेपथ्ये) नत्वा क्रमोद्धारमयं महौजाः क्षिप्त्वाऽपसव्यं जिनमण्डलस्थः । स्तुत्वाऽथ भक्त्या परया गुरुं च देवं च तद्ध्यानमलङ्करोति ।। २३ ।।
(उपजातिः) तत्रैव (साशङ्कम्)
आः किं व्योमभुवः पतत्यतिमहत् संचूर्ण्य यत् पर्वतान्; विश्वक्षोभविधायि मण्डलमभि ज्वालाभिरुड्डामरम् ।
(सानन्दम्) केनाप्यद्भुतसाहसेन सहसा निर्गत्य पातालतः क्रोधान्धेन हठात् प्रसार्य वदनं वेगादिदं ग्रस्यते ।।२४||
(शार्दूल.) देविप्रभा - ३ किं एवं दुवारे विजुपुंजु व्व तक्काले दिळं [नटुं] च । तत्त्वप्रपञ्चन:- त्वं येनापहृता पूर्वं भ्राता तस्य सहोदरः ।
करोति विघ्नसंघातं तं निराकुरुते फणी ।। २५ ॥ (अनुष्टुप्) देविप्रभा - ३५णं तत्त्वपवंचण ! किं एदं पुरुषदो जुन्हापुंजेण अलक्खभयं
सयलदिसामुहाइं उज्जोतयंतं धवलायवत्ततले दीसदि । तत्त्वप्रपञ्चनः- सहस्रभानुः फणरत्नकान्त्या शरीरतेजःपटलैस्तु चन्द्रः । एष स पातञ्जलिनागराजस्त्वद्भर्तृसिद्धयै दिशतीह नागान् ।। २६ ॥
(उपजातिः) ३४. देवि. - किम् एतद् द्वारि विद्युत्युञ्ज इव तत्कालं दृष्टं(नष्ट) च । ३५ देवि. ननु तत्त्वप्रपञ्चन ! किम् एतत् पुरुषतः ज्योत्स्नापुञ्जन अलक्ष्यभयं सकलदि
मुखानि उद्द्योतयद् धवलातपत्रतले दृश्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156