Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 129
________________ चन्द्रलेखाविजयप्रकरणम्] [पञ्चमोऽङ्कः तदव स्थिता प्रणम प्रभुम् । देविप्रभा - (संस्कृतमाश्रित्य) आनन्दकन्दलीकन्द शतचन्द्रसमत्विषे । नागाधिपाय भवते धरित्रीधारिणे नमः ।। २७ ॥ (अनुष्टुप्) ततः प्रविशत्याकाशयानेन चन्द्रलेखा] चन्द्रलेखा - (इतस्ततो विलोक्य) ३६अहह ! रामणीयत्तणं मंडलभूभीए । जं पारिजायकुसुमप्पयरो विकिन्नो ___नचंति सिद्धजुवई य सविब्भमा जं । गायंति किन्नरगणा हरिसाउलं जं __ दूरे न वट्टदि तदो विजयस्स सिद्धी ॥ २८ ॥ (वसन्ततिलका) (चन्द्रिकादत्तहस्तावलम्बा निजदृष्टिसमन्विता परिक्रामति) तत्त्वप्रपञ्चनः- कथमियं चन्द्रलेखा । (सप्रणयम्) अयि चन्द्रलेखे ! स्वागतं भवत्याः । चन्द्रलेखा- (सप्रश्रयम्) ३"गुरूणं पसाएण | देविप्रभा - (तत्त्वप्रपञ्चनं प्रति) ३ का एसा दिव्वतणू तुम्हे आलवेदि । तत्त्वप्रपञ्चन:- सेयं त्वदीया भगिनी वैताढ्यगिरिनिवासा विद्याधरी चन्द्रलेखा । देविप्रभा- ३९जं विजइंदो जीविदाओ अहियं मन्नेदि । तत्त्वप्रपञ्चन:- नैवम् । विजयस्य उभे अपि भवत्येषा च समाना । तत्सर्वथा प्रणय एवास्यां त्वया विधेयः (चन्द्रलेखां प्रति) अयि ! प्रणम एतां अरुंधतीसमां महाराज्ञीं देविप्रभाम् । (चन्द्रलेखा तथा करोति उभे अप्येकासनस्थे परस्परं स्निग्धालापान कुरुतः) (विजयेन्द्रः मार्गेणात्मानं निरीक्षमाणः परब्रह्मणि मनो बध्नाति) ३६. चन्द्र. - अहह रामणीयकत्वं मण्डलभूम्याः । यत् पारिजातकुसुमप्रकरो विकीर्णः नृत्यन्ति सिद्धयुवतयः सविभ्रमा यत् । गायन्ति किन्नरगणा हर्षाकुलं यत् दूरे न वर्तते ततो विजयस्य सिद्धिः ॥ ३७. चन्द्र. गुरूणां प्रसादेन । ३८. देवि. (....) का एषा दिव्यतनुः त्वाम् आलापयति । ३९. देवि. यां विजयेन्द्रो जीवितादधिकं मन्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156