Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
चतुर्थोऽङ्कः
[चन्द्रलेखाविजयप्रकरणम् मण्डले यतो अगवत् कठिना नागा गारुडमन्त्रा हृदये यस्यास्तया चन्द्रलेखया देविनी प्रभा यस्यास्तया सह गारुडमन्त्रा धात्री य विलसत्प्रभा एतदर्शनाद्धि निधेः संश्रिता नागाः प्रक्ष्मन्ति (प्रक्षरन्ति) ततः सखावहा सिद्धिर्भविष्यति । धेहि मण्डलं पष्टिं नय, एहि च रक्ष मण्डलमस्माकं विधिवत् पूजय अन्यथा मण्डलनाशो भवति
क्रियाभ्रंशात्, सुख (हे)तुत्वान्मण्डलं शंशब्देनोच्यत इति । तत्त्वप्रपचन:- भगवन् ! इदमपि किं कर्णामृतस्यन्दि वचः समाकर्ण्यते । आत्मावबोधः- मण्डलाधिष्ठात्री हि देवता देवशर्माणं संतुष्टा शिक्षयतीति । देवी- (स्वहस्तनिक्षिप्तमहाक्षता तात्त्विकीयम्) वत्स ! एभिर्दिव्याक्षतैः श्रीम
दजितबलादेवि(वी)प्रसादात् प्राप्तव्यदुग्गेन (र्गेण) खेचरमहासिद्धमतिविभवोपनीतकृष्णचित्रकेन्धनप्रदीप्तहुताशनेन विहितमहाचरुपाके सर्वा अपि ता महासिद्धयस्तूर्णं श्रीशेषराजचरणानुध्यानाद् भविष्यन्ति (इत्युक्त्वा
तिरोदधे) विजयेन्द्रः- (ध्यानाद्विरम्य देवीमपश्यन् सिद्धाक्षतैः संभृतं कराञ्जलिं पश्यति ।)
(आत्मावबोधं प्रति) भगवन् ! पूज्यमन्त्रोपदेशादिदं संवृत्तं । (-सिद्धाक्षतान् कण्ठकन्दलावलम्बिनं चन्द्रहारं च दर्शयति ।) आत्मावबोधः- सहस्ररत्नसङ्काशा तव देव्याः प्रसादतः ।।
अचिरेण तनौ वत्स राजते देविनी प्रभा ॥ ३७ ॥ (अनुष्टुप्) [ततः प्रविशति चक्रवर्तिश्रीरत्नपुञ्जसमन्विता महाराज्ञी श्रीदेविप्रभा] देविप्रभा - अद्यैव तज्जन्म कृतार्थमेतदद्यैव तेषां गुरुता गुरूणाम् । अद्यैव देवी प्रथितप्रभावा प्राण्यो मया येन स जीवितेशः ।। ३८ ॥
(उपजातिः) (प्रतीक्ष्य पुत्रमनुयायिनं करोति) विजयेन्द्रः- (कलकलमाकण्य) भगवन् ! किमेतदखिलमिलितजनतासंमर्द
___ व्याकुलाऽविस्पष्टप्रजल्पितमभितः श्रूयते ? । आत्मावबोधः- सैषा देविप्रभा देवी निजपुत्रेण भूषिता ।
त्वामधृष्यं समभ्येति स्वधुनीव पयोनिधिम् ।। ३९ ॥ (अनुष्टुप्) देविप्रभा - (परिक्रम्याग्रतोऽवलोक्य सानन्दम् । पुत्र प्रति) तात ! स एष ते तातः पुरतो दृश्यते । अमी आत्मावबोधा गुरवः, अयं च महातपस्वी तत्त्वप्रपञ्चनः ।
७८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156