Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre

View full book text
Previous | Next

Page 97
________________ चन्द्रलेखाविजयप्रकरणम् तृतीयोऽङ्कः तत्त्वप्रपञ्चनः- (विहस्य) (मुग्धा वराकी न वेत्ति परमार्थमित्यवधीर्य परिक्रम्य च । कूपसविधे उपविशति । विचिन्त्य क्षणं स्थित्वा) अयि किमद्यापि चिरयति नागः । (इतस्ततो विलोकयति ।) चेटी - (कूपान्तराद् धगद्धगिति तेजसः स्फुलिङ्गान् कल्पान्तवह्रिकल्पानुद्गच्छतो विलोक्य सचकितम्) भयवं किं संपदं तुम्हाण महयसंहारवारओ वट्टदि ? (तेजःप्रभावमसहमाना निपतति) तत्त्वप्रपचन:- (तत्तादृशं दृष्ट्वा सहर्षम्) कृतकृत्येन मित्रेण तेजःपटलधारिणा | तं तमिस्रसमं हत्वोत्पत्यते वडवामुखात् ॥ ४९ ॥ (अनुष्टुप) स्निग्धान्धकारकलिता काचबद्धेव मेदिनी । तेजसां पटलेनैषा क्रियते कनकप्रभा ॥ ५० ॥ (अनुष्टुप) ततः प्रविशति कनकचूडः] कनकचूड:- (समन्ताद् विलोक्य) सानन्दं वर्धाप्यसे मित्रस्य जयोत्सवेन | तत्त्वप्रपञ्चन:- (सहर्षम्) किं किं समजनि ? कनकचूड:- किं विस्तरेण ? तं दुष्टं पराजित्य तेन सा समासादितेति । कथं कथमिति चेत् तदिदमाख्यायते । . दृष्ट्वा कूपमगाधं, धरान्त [रा] वर्त्म मय्य (यि)निर्दिशति । सहसैव दत्तझंपः प्राप गृहं द्विजवरस्तस्य ।। ५१ ॥ (आय) ततस्त्वरितं मयानुगम्य तस्मिन् रक्षसि दर्शिते एवमुक्तवान् ब्रह्मवीरः । रे पाप ! प्रकटं मम प्रियतमां हत्वा समैष्यद्यदि प्रख्यातो भुजविक्रमस्तव तदा लोकेऽभविष्यत्परम् । यत्त्वन्यत्र मयि स्थिते सुहृदि च प्राप्ते मदन्तं भवा - नेवं कर्म समाचरत्तदुचितं नक्तञ्चर ! त्वत्कुले ।। ५२ ॥ (शार्दूल.) __सम्प्रति च कृतान्तमुखमायातेन जन्तुना यत् क्रियते तद् विधीयतामिति तर्जितेन रक्षसा सरभसमुत्थाय करकलितकरवालेन सम्मुखमुपक्रान्तम् । ३०. भगवन् ! स्फुटमविचारितकार्यमिदमतिमहदाचरितम् । यत् प्रथम सा विधेः दत्ता एष कलान्तरे पश्चात् || ३१. भगवन् ! किं साम्प्रतं युष्माकं महत्संहारवारकः वर्तते । । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156