Book Title: Chandralekhavijayprakaranam
Author(s): Devchandramuni, Pradyumnasuri
Publisher: Shardaben Chimanbhai Educational Research Centre
View full book text ________________
चन्द्रलेखाविजयप्रकरणम् ]
[तृतीयोऽङ्कः
तत्त्वप्रपञ्चनः - चन्द्रलेखे ! नेयमविमर्शकारिता भवत्याः कदापि शोभां प्राप्स्यति । चन्द्रलेखा - (वलितग्रीवमवलोक्य) २० तत्तपवंचण ! दिट्ठावराहसहस्सा खुऽहमेवं समाचरेमि किं अविमरिसकारित्तमित्थ सव्वदा एसो अम्मजं य्येव मयि समाचरेदि ता सच्चं सप्पो बंभणो य अइपीणिदोवि अवज्जकारी होइ । तत्त्वप्रपञ्चनः- मैवम् ।
अवद्यमनवद्यं स्यात् वाडवस्थितिमावहत् ।
ग्रासोद्ग्रासैरशुद्धोऽपि सिन्धुः कस्य न शुद्धये ॥ २७ ॥ (अनुष्टुप्) अत्र त्ववद्यमपि न किञ्चिदस्य अन्यच्च शिक्षयामि भवतीम् । प्रणयं मनसि दधत्या प्रियस्य सह्यानि विप्रियशतानि ।
क्रियते यदि जलवासस्तन्मकरादेरुपद्रवः कलितः || २८ || (आय) चन्द्रलेखा (ईर्ष्याविरामं नाटयन्ती )
न कया वि तुम्हाणं भासिदमहं अन्नधा करिस्सामि । * एसुणो वारं वारं तं दरिसयंतो न विरमिस्सदि ।। २९ ।। (आर्या) ( इति विवृत्य सम्मुखीभवति)
तत्त्वप्रपञ्चनः- (विजयं प्रति ) अन्तर्गूढोपहासं इत ऊर्द्धवं न कदापीदृशं विरुद्धमस्यास्त्वया दर्शयितव्यम् ।
विजयः तथेति प्रतिपद्य, तां हस्ते गृहीत्वा लतागृहाद् बहिर्गन्तुमुपक्रमते । (दिशो निरीक्ष्य)
कथमस्ताचलचूलामधिरूढः सम्प्रति सहस्रांशुः । तथाहिसन्ध्यावधूं भजति भास्वति सानुरागा - मीय परां कमलिनी विकटं दधाना । मीलत्सरोजमुकुलां तरुणी नु भृङ्गी
मिषात् सकरुणं ननु रोदितीव ॥ ३० ॥
(वसन्ततिलका)
२०. तत्त्वप्रपञ्चन ! दृष्टापराधसहस्रा खलु अहम् एवं समाचरामि किम् अविमृश्यकारित्वमत्र, सर्वदा एषः अमर्याद एव मयि समाचरति, ततः सत्यं सर्पः ब्राह्मणश्च अतिप्रीणितोऽपि अवधकारी भवति ।
२१. न कदापि युष्माकं भाषितमहमन्यथा करिष्यामि ।
एष पुनः वारं वारं तं दर्शयन् न विरमिष्यति ॥
एस उणो
८-१-१०
*
=
एष पुनः । नात् पुनर्नादाईवा ८-१-६५. अतोडोविसर्गस्य ८-१-३७. लुक्
Jain Education International
५३
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156