SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम् ] [तृतीयोऽङ्कः तत्त्वप्रपञ्चनः - चन्द्रलेखे ! नेयमविमर्शकारिता भवत्याः कदापि शोभां प्राप्स्यति । चन्द्रलेखा - (वलितग्रीवमवलोक्य) २० तत्तपवंचण ! दिट्ठावराहसहस्सा खुऽहमेवं समाचरेमि किं अविमरिसकारित्तमित्थ सव्वदा एसो अम्मजं य्येव मयि समाचरेदि ता सच्चं सप्पो बंभणो य अइपीणिदोवि अवज्जकारी होइ । तत्त्वप्रपञ्चनः- मैवम् । अवद्यमनवद्यं स्यात् वाडवस्थितिमावहत् । ग्रासोद्ग्रासैरशुद्धोऽपि सिन्धुः कस्य न शुद्धये ॥ २७ ॥ (अनुष्टुप्) अत्र त्ववद्यमपि न किञ्चिदस्य अन्यच्च शिक्षयामि भवतीम् । प्रणयं मनसि दधत्या प्रियस्य सह्यानि विप्रियशतानि । क्रियते यदि जलवासस्तन्मकरादेरुपद्रवः कलितः || २८ || (आय) चन्द्रलेखा (ईर्ष्याविरामं नाटयन्ती ) न कया वि तुम्हाणं भासिदमहं अन्नधा करिस्सामि । * एसुणो वारं वारं तं दरिसयंतो न विरमिस्सदि ।। २९ ।। (आर्या) ( इति विवृत्य सम्मुखीभवति) तत्त्वप्रपञ्चनः- (विजयं प्रति ) अन्तर्गूढोपहासं इत ऊर्द्धवं न कदापीदृशं विरुद्धमस्यास्त्वया दर्शयितव्यम् । विजयः तथेति प्रतिपद्य, तां हस्ते गृहीत्वा लतागृहाद् बहिर्गन्तुमुपक्रमते । (दिशो निरीक्ष्य) कथमस्ताचलचूलामधिरूढः सम्प्रति सहस्रांशुः । तथाहिसन्ध्यावधूं भजति भास्वति सानुरागा - मीय परां कमलिनी विकटं दधाना । मीलत्सरोजमुकुलां तरुणी नु भृङ्गी मिषात् सकरुणं ननु रोदितीव ॥ ३० ॥ (वसन्ततिलका) २०. तत्त्वप्रपञ्चन ! दृष्टापराधसहस्रा खलु अहम् एवं समाचरामि किम् अविमृश्यकारित्वमत्र, सर्वदा एषः अमर्याद एव मयि समाचरति, ततः सत्यं सर्पः ब्राह्मणश्च अतिप्रीणितोऽपि अवधकारी भवति । २१. न कदापि युष्माकं भाषितमहमन्यथा करिष्यामि । एष पुनः वारं वारं तं दर्शयन् न विरमिष्यति ॥ एस उणो ८-१-१० * = एष पुनः । नात् पुनर्नादाईवा ८-१-६५. अतोडोविसर्गस्य ८-१-३७. लुक् Jain Education International ५३ For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy