SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः ] नायं ललाटे कान्ताया वक्रः कस्तूरिकाशशी । सीमन्तकुल्यया निर्यल्लावण्यरसभाजनम् || २० || तत्त्वप्रपञ्चनः- नेयं भालतले तिर्यक् कस्तूरीतिलकावली । काममद्यपराजस्य शिप्रा लावण्यशीधुनः ।। २१ । विजयः- (पुरः स्थितदोलामवलोक्य प्रियां प्रति) अये ! सेयं दोला तिलकनतशाखाप्रणयिनी, लसन्मल्लीमालापरिमलमिलद्भृङ्गविरुतैः । करोतीवाह्वानं चरमदिवसाश्लेषजनितं, स्मरन्ती तत्सौख्यं पुनरपि भवत्याः श्रमनुदे || २२ || तदियमध्यारोहणेण कृतार्थीक्रियताम् । (चन्द्रलेखा अध्यारुह्य दोलाविलाससुखमनुभवति) [चन्द्रलेखाविजयप्रकरणम् विजयः- उदञ्चति कुचस्थलात् तरलतारहारावली, गलन्ति गलकन्दलाद् विकचमल्लिकामालिकाः । समाह्वयति मन्मथं मुखरमेखलाघण्टिका, कुरङ्गरमणीदृशः किमु न हारि दोलाक्षणे ॥ २३ ॥ तत्त्वप्रपञ्चनः- दोलान्तरालतरलं वदनं कृशाङ्ग्या दूरोल्लसत्कुवलयं स्मितचन्द्रिकाभिः । बिभ्राणमङ्ककमलामलकावलीभिः Jain Education International सततं मामनुरक्तं त्यक्त्वा सपदि क्व यासि मदिराक्षि ! | अनुकूले प्रतिकूलं कुर्वन्ननु कः सुखी लोके ? || २६ ॥ (चन्द्रलेखा सरोषमनाकर्णयन्ती च हुं हुं वदन्ती तथैव गच्छति ) १९. दूरं त्यक्तेऽपि नगे तव दयिता मुञ्चति नैव मम पार्श्वम् । स्वर्गं प्राप्तेऽपि खरे न मुञ्चति दाम ( बन्धनं) पृष्ठम् || ५२ सत्यं विडम्बयति तं शशिनो विलासम् || २४ ।। ( वसन्ततिलका) चन्द्रलेखा - (चन्द्रशिलातलप्रतिबिम्बितां निजप्रतिकृतिं निरीक्ष्य सेर्ष्यम्) १९ दूरं चत्ते वि नगे तुह दइया मुयइ नेय मह पासं । सग्गं पत्ते विखरे नहु मिल्लइ दाम्वणं पिट्ठि ॥ २५ ॥ (तत्क्षणमवतीर्य द्रुतपदं क्रामन्ती निजसद्मसम्मुखं गमनं नाट्यति) विजयः - ( अञ्चलेऽवधार्य) (आय) For Private & Personal Use Only (अनुष्टुप्) (अनुष्टुप्) (शिखरिणी) (पृथ्वी) (आय) www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy