SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम्] तृतीयोऽङ्कः १६अणुमन्नसु जामि घरं दूमइ सव्वं पि मह मणं एयं । मा कह तुज्झ विउत्ता लहेमि दुक्खस्स वीसामं ।। १५ ।। (आया) विजयः- (तत्त्वप्रपञ्चनं प्रति) सखे ! इत्थमपि वदन्ती सुखयतितरामियमस्मान् परं कथयामि किञ्चित् । लक्ष्मीः प्रेम च घटितं द्रव्येणैकेन वेधसा मन्ये । अत एवात्र द्वितये हृद्येऽपि हि चापलं तुल्यम् ॥ १६ ॥ (आया) तत्त्वप्रपञ्चन:- मैवम् । सर्वगुणेष्वप्यस्मिंश्चञ्चलता वहति परमसौन्दर्यम् । रसनिस्यन्दिपदेष्वप्युक्तेरिव वक्रता काव्ये ।। १७ ॥ (आया) चन्द्रलेखा- (गाढपरितापमनुभूय) १७कहं मज्झन्हसमओ वट्टदि । १"लुक्को पुव्वदिसाए एस रवी वहइ निबिडसंतावं । संपत्तो अवराए जइ कहमवि निव्वुदि लहइ ॥ १८ ॥ (आया) तत्त्वप्रपञ्चनः ब्रह्मन् ! गगनमध्यमध्यासीनः सर्वतः परितापदुःसहः सहस्रांशुः । तदत्र प्रियङ्गुलतामण्डपान्तः स्थिताः कियन्तं समयमतिवाहयामः । [सर्वे प्रवेशं नाटयन्ति चन्द्रशिलातले उपविशन्ति च] विजयः- (चेटीवर्गोपनीतमृगमदमलयजरसादिसुगन्धिद्रव्योपभोगं प्रियया सममनुभूय) प्रिये ! किमु निशि हिमपिण्डैरात्तमार्णालतन्तुविरचयति विरिश्चिः पाथसोऽन्तः प्रविश्य । मलयजरसमुख्यान्येष वस्तून्यमूनि प्रबलतरणितापं यत् क्षणेन क्षिपन्ति ॥ १९ ॥ (मालिनी) अथ मृगमदेन भालतले प्रियाया अर्द्धचन्द्रं विरचय्य (तत्त्वप्रपञ्चनं प्रति) वयस्य ! दीयतां दृष्टिरत्र । १६. चन्द्र अनुमन्यस्व यामि गृहं दुनोति सर्वमपि मम मन एतत् । ___ मा कथं तव वियुक्ता लभे दुःखस्य विश्रामम् ।। १७. चन्द्र. कथं मध्याह्नसमयो वर्तते ? । १८. लीनः पूर्वदिशि एष रविर्वहति निबिडसंतापम् । संप्राप्तोऽपरस्यां यदि कथमपि निर्वृतिं लभते ।। ५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy