________________
तृतीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम्
चन्द्रलेखा - १३सलहिज्जइ एस परं भुवणयले छप्पओ छइलाणं ।
सयलवणराइरत्तो मालइए जो तउव्विट्ठो ॥ ११ ॥ (आया) विजयः- (स्वगतम्) अन्योक्त्या मामुद्दिश्य निश्चितं वदति वल्लभेयम् । तद् रसान्तरेण
प्रतारयामि । (प्रकाशम्) पुरः क्रीडाशैलं दर्शयन् स्मरसि किमिह मुग्धे स्वैरमीायितस्य
स्फटिकघटितभित्तावात्मनो वीक्ष्य बिम्बम् । अपरयुवतिशङ्काव्याकुला पादघातैः सपदि हृदि तदा मे ताडनं यत् व्यधास्त्वम् ।। १२ ॥
(मालिनी) चन्द्रलेखा - (विलासशैलमवलोक्य सोत्कम्पम्)
१४ मा वच्चसु पिय अस्सिं न मुयइ जस्सि नरं सवित्ती सा ।
नूणं पत्तो तीए होसि तुमं दुल्लहो मज्झ ।। १३ ।। (आया) चेटी - (स्वगतम्) आः शान्तं पापम् । किमुक्तमनया देव्या स्ववियोगभावि [व]चः । तत्त्वप्रपञ्चनः- (स्वगतम्) अहह ! दैवमपि गुरुणा चिन्तितार्थकारि यदियं भविष्य
द्विप्रयोगसूचामभिहितवती । विजयः- प्रिये ! तर्हि ऋतुषट्कसमुत्सवसमृद्धमुद्यानोद्देशमवलोकयामः । चन्द्रलेखा- १५एवं किजदु। विजयः - (निपुणं वपुःश्रियमवलोक्य सानुरागम्) तिष्ठतु तावदथवा वनान्तोद्देशः ।
स्फुरत्परभृतस्वरा विकचकान्तमल्लीस्मिता समुन्नतपयोधरा विशदचन्द्रवक्त्रद्युतिः। प्रदत्तपुलकोद्गमा घनतुषारशीता प्रिये त्वमेव दधसे तनावृतुकदम्बलक्ष्मीमिति ।। १४ ।।
(पृथ्वी) चन्द्रलेखा - (तामेव स्फटिकशिलान्तः स्वप्रतिबिम्बेन सपनी स्मरन्ती साभ्यसूयम्) १३. चन्द्र. श्लाध्यते एष परं भुवनतले षट्पदः छेकानाम् ।
सकलवनराजिरक्तः मालत्यां यः तदा उपविष्टः ।। १४. मा व्रज प्रिय ! अस्मिन् न मुञ्चति यस्मिन् नरं सपत्नी सा |
नूनं प्राप्तः तया भवसि त्वं दुर्लभो मम ॥ १५. चन्द्र एवं क्रियताम् ।
५०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org