________________
चन्द्रलेखाविजयप्रकरणम्]
[तृतीयोऽङ्कः
विजयः- (परिक्रम्य उद्यानान्तर्विहरमाणः समीरणस्पर्शसुखमनुभूय)
आलिङ्गन्तो गगनतटिनीलोलकल्लोलमालाः
क्रीडोद्याने विचकिललता मन्दम(मा)न्दोलयन्तः । लु म्पन्त्ये ते सु रतललितक्लान्तकान्ताकपो ले
___लीलापत्रावलिविलुलितान् स्वेदबिन्दून् समीराः ।।६।। (मन्दाक्रान्ता) तत्त्वप्रपञ्चनः- सुभुवनमभिपुनानः कुम्भयोनेदिगन्तात्
__मलयजनभ[ग]शाखासङ्गमासाद्य सद्यः । (तरु)? जलधि सवनशुद्धः सञ्चरत्यत्र पूर्व
स्मरणकलितभीत्येवैष मन्दं समीरः ।। ७ ।। (मालिनी) चन्द्रलेखा- १२निब्मच्छिदमुत्ताहल [सरसी] सीयरेहिं रूसिदो एस ।
__ अक्खइ हंत कयत्थं रयणायरसंगएण अप्पाणं ।। ८ । (आया) विजयः- साधक्तम् । कस्त्वदन्यो (जनः) नामैवमेनमप्रेक्षते । सत्यं सद्यःकविरसि |
(परिक्रम्य पुरः सरसीमवलोक्य चन्द्रलेखां प्रति) प्रिये ! सेयं सरसी पुनर्नयनवर्त्मनि वर्तते यस्यां पुरा त्वया सह क्रीडता क्षणमिव रात्रिन्दिवमतिवाहितं मया, सम्प्रत्यथावयोर्दर्शनात् पश्य यादृशीमानन्दसम्पदमावहतिविकचकमलचक्रा लोलकल्लोलहस्ता प्रकटितवलयाभाऽऽवत चारीविलासा । [मधुकर मधुगुञ्जा वेणुनादे समन्ताद् विलसति मुदितेयं दीर्घिका नृत्यतीव ॥ ९ ॥
(मालिनी) (इतस्ततोनिरीक्षमाणस्तटस्थितमालतीवनमवलोक्य) उज्वम्भमाणनवकाञ्चनपद्मकोशे...
पीत्वा मुहुर्मधु सुगन्धि मधुव्रतोऽयम् । उद्यन्मदभ्रमिसलीलनिमीलिताक्षः ।
प्रत्यङ्कमालुठति सम्प्रति मालतीनाम् ।। १० ।।... (मालिनी) + सवनं = स्नानम्. अभिचि. ६३८... १२. निर्भसितमुक्ताफल [सरसी] शीकरैः स्पृष्ट एषः । ..
आख्याति हन्त कृतार्थं रत्नाकरसंगतेन आत्मानम् ।। * नहि चारी विना नृत्ये नृत्यत्यानं प्रवर्तते । (शब्दरत्न.)
एकपादप्रचारो यः स चारीत्यभिधीयते ॥ (नाट्यशास्त्र अ. १०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org