SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽङ्कः] [चन्द्रलेखाविजयप्रकरणम् अंकाउ मुंचदि खणं पि न चंदलेहं, रतिंदिवं गमइ सुंदरकाणणेसुं ।। २ ।। (वसंततिलका) शुद्धबुद्धिः- अपायबहुलानि कान्ताराणि, किमिति पुरं त्यक्त्वा तेषु बद्धरतिः । मतिमसृणः- ११ जत्थ सदोदिदललिदा वियरदि तत्तपवंचमइजुन्हा । तत्थ कह अवयासो महदो वि अवायतिमिरस्स ॥ ३ ॥ (आया) शुद्धबुद्धिः- यद्येवं तथापि - निकटे समुपवेश्य कर्णे एवमेव गुरूपदिष्टं तत्त्वप्रपञ्च नोद्योगाय निवेदयते वदति च) क्व सम्प्रति भवता गन्तुं प्रारब्धमासीत् । मतिमसृणः- (कर्णे एवमेव) पातालवासिनः कनकचूलस्य सन्दिष्टं कथयति । शुद्धबुद्धिः- तर्हि त्वरा [रया] याहि । अहमपि गुरूणामत्रत्योपलब्धि सर्वां निवेदयामीति । (निष्क्रान्तौ) विष्कम्भकः प्रविशति यथानिर्दिष्टो विजयः चन्द्रलेखा च । विभवतश्च परिवारः] विजयः- अहह प्रभातसमयः कं नाम नाऽऽमोदयति । तथाहि युक्तं यज्जनयन्निवैष सविता विश्वं तमिस्रोदरात्, मित्राख्यः सुखमुत्सृजन्नघभरं भिन्दन् हरिर्गीयते । निःशेषं खलु वर्तयन्नपि महश्चक्रेण चक्रं जवादेतच्चित्रमहो जगाम न जने तां चक्रवर्तिप्रथाम् ।। ४ ।। (शार्दूलविक्रीडितम्) तत्त्वप्रपञ्चन:- मैवम् । नत्वेषा पदवी तनोति परमं माहात्यमुच्चैस्तरामन्येष्वेव जगत्त्रयैकतिलकेऽमुष्मिन्ननौचित्यभृत् । अम्भोजासनचक्रपाणिगिरिशैरन्वीयमानोऽन्वहं बालोऽप्येष तिरस्करोति न विभुः किं चक्रवर्तिश्रियम् ॥ ५ ।। (शार्दूलविक्रीडितम्) अङ्कात् मुञ्चति क्षणमपि न चन्द्रलेखां, रात्रिन्दिवं गमयति सुन्दरकाननेषु ।। ११. मति. - यत्र सदोदितललिता विचरति तत्त्वप्रपञ्चनमतिज्योत्स्ना । तत्र कथमवकाशो महतोऽप्यपायतिमिरस्य ।। ४८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy