SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ चन्द्रलेखाविजयप्रकरणम्] तृतीयोऽङ्कः शुद्धबुद्धिः- न केवलं चक्रवर्तिना, अस्यापि विजयस्य महाविद्याप्रसाधने करिष्यमाण महाचरुपाके उत्तरसाधकेन भवितव्यम् । मतिमसृणः- (सविस्मयम्) तदो किमेस इदो ठाणाओ तत्थ गमिस्सदि ? । शुद्धबुद्धिः- गमिष्यति गमिष्यति । मतिमसृणः- (सचकितं स्वगतम्) "एवं पुनरुत्तेण ववं[य]तो कंपेदि मं । नूणं चंदलेहाए वियोगेण भविदव्वं, अम्हेहिं वि पुणो अडवी सेविदव्वा । - (प्रकाशम्) णं सो जणिदपुत्तो तस्सिं य्येव अडवीहिं तिस्सा समीवे चिट्ठ दि ? | शुदबुद्धिः- (विहस्य) स जातमात्रोऽपि निजप्रभावान्यक्कत्य रक्षः शुशुभे महौजाः । पार्श्वे गुरूणामभिवर्द्धमानः क्षिप्त्वा तमिस्र नभसीव भानुः ॥ १ ॥ (उपजातिः) मतिमसृणः- (सचमत्कारम्) "ण किं रक्खं जं तस्स पहावेण पराभूदं ? ।। शुद्धबुद्धिः- तस्या एवाहितातमायाः पतिर्विकटाक्षः । मतिमसृणः- 'तदो जदि एवं विजयो सुणिस्सदि ता नूणं तिस्सा एव रक्खसीए पहि पेसइसदि । शुद्धबुद्धिः- साधूक्तं, न किञ्चिदसाध्यं विजयस्य, सम्प्रति कथं कथं . विलाससुखमनुभवतीति बोधय । मतिमसृणः- १° सो देवदूसवसणाई अलंकरेदि, धम्मिल्लए वहदि णिच्चं वि पारियायं । ६. मति. ततः किमेष इतः स्थानात् तत्र गमिष्यति ? । ७. मति. एवं पुनरुक्तेन वदन् कम्पयति माम् । नूनं चन्द्रलेखायाः वियोगेन भवितव्यम् । अस्माभिरपि पुनरटवी सेवितव्या । (प्रकाशम्) ननु सः जातपुत्रः तस्यामेवाटव्यां तस्याः समीपे तिष्ठति ? | ८. मति. ननु किं रक्षः यत् तस्य प्रभावेन पराभूतम् । ९. मति. ततः यदि एवं विजयः श्रोष्यति ततः नूनं तस्या एव राक्षस्याः पथि प्रेषयिष्यति । १०. मति. - स देवदूष्यवसनानि अलङ्करोति, धम्मिल्लके वहति नित्यमपि पारिजातम् । ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001379
Book TitleChandralekhavijayprakaranam
Original Sutra AuthorDevchandramuni
AuthorPradyumnasuri
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year1995
Total Pages156
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy