________________
तृतीयोऽङ्कः]
[चन्द्रलेखाविजयप्रकरणम् ततः प्रविशति शुद्धबुद्धिः] शुदबुद्धिः- आदिष्टोऽस्मि आज्ञासिद्धेन गुरुणा यत् त्वया वैतान्यशिखरमारुह्य
मायापुरीनिवासी चन्द्रलेखापतिर्विजयो नाम ब्रह्मसूनुः परमविद्यासाधनाय समीपस्थिततत्त्वप्रपञ्चनात् तेन तेनोपायेन इह समानेतव्यः, तत्र स्थितस्य च विद्याधरीभोगसुखमुपभुञानस्य अपायकदम्बकविद्रावणाय तस्यैव तत्त्वप्रपञ्चनस्य इदमादेश्यम् । ततस्तं क्व विलोकयिष्यामि । (सम्मुखमायान्तं
मतिमसृणं दृष्ट्वा) अहो मतिमसृण ! क्व गन्तव्यं भवता ? मतिमसृणः- (वलितग्रीवमवलोक्य) 'कहमेस सुद्धबुद्धी ता किं कारणमिहागमणे
मुणिदव्वं, (विनि]वृत्त्योपसर्प्य सप्रश्रयम्) 'सखे ! संदिट्ठकजसाहणो
सुयमाणसेण तुवं न दिट्ठो सि, कहेदु कुसलं गुरूणं ? | शुदबुद्धिः - एवं । मतिमसृणः- ३किं कज्जमिहागमणेण ? शुदबुद्धिः- शृणु जानात्येतद् भवानपि यत् तदा तां दुष्टराक्षसीमपाकृत्य विद्याधरीमे
नामासाद्य इह विलाससुखमुपभुञानस्य तेन संसारमायाप्रपञ्चेन इतः स्थानादाकृष्योपनीतभार्यायां चक्रवर्तिबीजनिषेकार्थं नीतस्य तत्क्षण
एवात्रत्यसुखमनुस्मरत इहागतस्य सा दुष्करं जीवितमादधे ।। मतिमसृणः- "एदमन्नं च थोवं किंपि तत्तपवंचणेण मह कहिदं वट्टदि जं तइया
निसीहभरे मुत्तण इत्य आगदे भत्तरि तिस्सा आवनसत्ताए पिउणा कुलकलंकभयेण अडवीहिं परिच्चाओ कदो, तदो अजवि जीवदि तत्थ
ठ्ठिदा सा ? | . शुदबुद्धिः- अथ किम् । कल्याणपुत्रप्रसविन्यपि बभूव । मतिमसृणः- "किं तेण चक्कवट्टिणा भोदव्वं ? १. मति. कथमेषः शुद्धबुद्धिः, ततः किं कारणमिहागमने ज्ञातव्यम् । २. सखे ! संदिष्टकार्यसाधनोत्सुकमानसेन त्वं न दृष्टोऽसि, कथयतु कुशलं गुरूणाम् ? | ३. किं कार्यमिहागमनेन ? ४. मति. एतद् अन्यत् स्तोकं किमपि तत्त्वप्रपञ्चनेन मम कथितं वर्तते । यत् तदा निशीथभरे मुक्त्वा अत्र आगते भर्तरि तस्याः आपन्नसत्त्वायाः पित्रा कुलकलभयेन
अटव्यां परित्यागः कृतः ततोऽधापि किं जीवति तत्र स्थिता सा? | ५. मति. किं तेन चक्रवर्तिना भवितव्यम् ? |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org