________________
चन्द्रलेखाविजयप्रकरणम्]
[प्रथमोऽङ्कः आज्ञासिद्धः- अस्त्युत्तस्यां दिशि वैतान्यो नाम महागिरिस्तन्मेखलायां प्रसिद्धा
मायापुरी नाम नगरी । तस्यामेकदा विद्याधरेश्वरविक्रमसेनस्य पुरतः प्रवर्तमाने प्रेक्षणीयके विद्याधरवध्वाश्चन्द्रलेखाया नृत्यन्त्याः कुतोऽपि प्रमादात् सञ्जाते तालपरिभ्रंशे आहितातमा नाम ब्रह्मराक्षसी लब्धच्छला
विद्यापहारं चकार । ज्ञानबोधः- १°णं तस्स ईदिसो को वि णिओओ चिट्ठदि ? | आज्ञासिद्धः- नैवम्, किन्तु पूर्वबद्धवैरा राक्षसी, चन्द्रलेखया प्रियतमेन सह क्रीडार्थं ... तत्र गतया तस्याः पूर्वजन्मनि हंसीतनोः कुडमबिन्दुभिः कर्बुरीकरणेन
प्रियवियोगो जनित इत्यादि महत्संविधानकमस्ति ।। ज्ञानबोधः- ११तदो संपदं कधं ठिदा चिट्ठइ चंदलेहा ? आज्ञासिद्धः- नियतदिनमवेत्य स्वस्य विद्यापहारं,
ध्रवमजितबलायाः पादपद्मप्रसादात् । तदनु तदुपदेशादेव हंसीतनुः सा,
___ स्वरुचितपतिमाप्तुं चन्द्रलेखेयमास्ते ।। १७ ।।। . (मालिनी) ज्ञानबोधः- १२भयवं ता एदस्सा को पदी हविस्सदि ? | आज्ञासिद्धः- मुग्ध ! अयमेव, यो देव्या अत्राऽऽनयनाय तत्सन्निधौ स्थापनाय
चास्माकमादिष्टः । इयन्ति भाग्यानि किमन्यत्र निवसन्ति ? | अनेनैव प्राग्जन्मनि अष्टोत्तरलक्षसङ्ख्यया पञ्चपरमेष्ठिमन्त्रैः साधिताया अपि महाविद्यायाः फलमात्मनः अल्पायुष्ट्वान्न गृहीतम् । तदयं जन्मान्तरसाधितविद्योऽपि कर्मानुसारि बह्वपायेभ्यो रक्षणाय देव्या मम समर्पित इत्यस्य स्वगृहादस्मत्प्रयोगेण बहिर्वासनमपि सुन्दरम् । तथाहि - आसेदुषः स्वजनसन्निधिमेव पुंस - स्तत्तन्महद् भवति कस्य न नाम दुःखम् । चन्द्रस्य पश्य रविपार्श्वगतस्य हानि -
दूरस्थितस्य विलसत्यपरा समृद्धिः ॥ १८ ॥ (वसन्ततिलका) १०. - ननु तस्या ईदृशः कोऽपि नियोगः तिष्ठति ? ११. - ततः साम्प्रतं कथं स्थिता तिष्ठति चन्द्रलेखा ? १२. - भगवन् ! तद् एतस्याः कः पतिः भविष्यति ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org